Vana Parva, Adhyaya 176, Verse 1
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत्
उवाच च महासर्पं कामया ब्रूहि पन्नग
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः
नागायुतसमप्राणस्त्वया नीतः कथं वशम्
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा
समागताश्च बहुशो निहताश्च मया मृधे
दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम
किं नु विद्याबलं किं वा वरदानमथो तव
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया
असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः
यथेदं मे त्वया नाग बलं प्रतिहतं महत्
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्
भोगेन महता सर्पः समन्तात्पर्यवेष्टयत्
निगृह्य तं महाबाहुं ततः स भुजगस्तदा
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत्
दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम्
यथा त्विदं मया प्राप्तं भुजंगत्वमरिंदम
तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम
इमामवस्थां संप्राप्तो ह्यहं कोपान्मनीषिणाम्
शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत्
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः
तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च
इमामवस्थामापन्नः पश्य दैवमिदं मम
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम्
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्
न हि मे मुच्यते कश्चित्कथंचिद्ग्रहणं गतः
गजो वा महिषो वापि षष्ठे काले नरोत्तम
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम्
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात्
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित्
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः
सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति
इति चाप्यहमश्रौषं वचस्तेषां दयावताम्
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते
तमुवाच महाबाहुर्भीमसेनो भुजंगमम्
न ते कुप्ये महासर्प न चात्मानं विगर्हये
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः
आगमे यदि वापाये न तत्र ग्लपयेन्मनः
दैवं पुरुषकारेण को निवर्तितुमर्हति
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम्
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम्
यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान्
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः
मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः