Vana Parva, Adhyaya 175, Verse 1
कथं नागायुतप्राणो भीमसेनो महाबलः
भयमाहारयत्तीव्रं तस्मादजगरान्मुने
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं नागायुतप्राणो भीमसेनो महाबलः
भयमाहारयत्तीव्रं तस्मादजगरान्मुने
पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः
नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम्
तं शंससि भयाविष्टमापन्नमरिकर्षणम्
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम्
प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम्
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा
देवर्षिसिद्धचरितानप्सरोगणसेवितान्
चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः
कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान्
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः
स संपश्यन्गिरिनदीर्वैडूर्यमणिसंनिभैः
सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः
वनानि देवदारूणां मेघानामिव वागुराः
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि
मृगयां परिधावन्स समेषु मरुधन्वसु
विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः
स ददर्श महाकायं भुजङ्गं लोमहर्षणम्
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम्
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः
चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम्
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता
दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः
त्रासनं सर्वभूतानां कालान्तकयमोपमम्
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम्
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम्
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात्
तेन संस्पृष्टमात्रस्य भीमसेनस्य वै तदा
संज्ञा मुमोह सहसा वरदानेन तस्य ह
दश नागसहस्राणि धारयन्ति हि यद्बलम्
तद्बलं भीमसेनस्य भुजयोरसमं परैः
स तेजस्वी तथा तेन भुजगेन वशीकृतः
विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम्
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः
गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे
न चैनमशकद्वीरः कथंचित्प्रतिबाधितुम्