Vana Parva, Adhyaya 174, Verse 1
नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च
सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
नगोत्तमं प्रस्रवणैरुपेतं; दिशां गजैः किंनरपक्षिभिश्च
सुखं निवासं जहतां हि तेषां; न प्रीतिरासीद्भरतर्षभाणाम्
ततस्तु तेषां पुनरेव हर्षः; कैलासमालोक्य महान्बभूव
कुबेरकान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम्
समुच्छ्रयान्पर्वतसंनिरोधा;न्गोष्ठान्गिरीणां गिरिसेतुमालाः
बहून्प्रपातांश्च समीक्ष्य वीराः; स्थलानि निम्नानि च तत्र तत्र
तथैव चान्यानि महावनानि; मृगद्विजानेकपसेवितानि
आलोकयन्तोऽभिययुः प्रतीता;स्ते धन्विनः खड्गधरा नराग्र्याः
वनानि रम्याणि सरांसि नद्यो; गुहा गिरीणां गिरिगह्वराणि
एते निवासाः सततं बभूवु;र्निशानिशं प्राप्य नरर्षभाणाम्
ते दुर्गवासं बहुधा निरुष्य; व्यतीत्य कैलासमचिन्त्यरूपम्
आसेदुरत्यर्थमनोरमं वै; तमाश्रमाग्र्यं वृषपर्वणस्ते
समेत्य राज्ञा वृषपर्वणस्ते; प्रत्यर्चितास्तेन च वीतमोहाः
शशंसिरे विस्तरशः प्रवासं; शिवं यथावद्वृषपर्वणस्ते
सुखोषितास्तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे
अभ्याययुस्ते बदरीं विशालां; सुखेन वीराः पुनरेव वासम्
ऊषुस्ततस्तत्र महानुभावा; नारायणस्थानगता नराग्र्याः
कुबेरकान्तां नलिनीं विशोकाः; संपश्यमानाः सुरसिद्धजुष्टाम्
तां चाथ दृष्ट्वा नलिनीं विशोकाः; पाण्डोः सुताः सर्वनरप्रवीराः
ते रेमिरे नन्दनवासमेत्य; द्विजर्षयो वीतभया यथैव
ततः क्रमेणोपययुर्नृवीरा; यथागतेनैव पथा समग्राः
विहृत्य मासं सुखिनो बदर्यां; किरातराज्ञो विषयं सुबाहोः
चीनांस्तुखारान्दरदान्सदार्वा;न्देशान्कुणिन्दस्य च भूरिरत्नान्
अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहोर्ददृशुर्नृवीराः
श्रुत्वा च तान्पार्थिवपुत्रपौत्रा;न्प्राप्तान्सुबाहुर्विषये समग्रान्
प्रत्युद्ययौ प्रीतियुतः स राजा; तं चाभ्यनन्दन्वृषभाः कुरूणाम्
समेत्य राज्ञा तु सुबाहुना ते; सूतैर्विशोकप्रमुखैश्च सर्वैः
सहेन्द्रसेनैः परिचारकैश्च; पौरोगवैर्ये च महानसस्थाः
सुखोषितास्तत्र त एकरात्रं; सूतानुपादाय रथांश्च सर्वान्
घटोत्कचं सानुचरं विसृज्य; ततोऽभ्ययुर्यामुनमद्रिराजम्
तस्मिन्गिरौ प्रस्रवणोपपन्ने; हिमोत्तरीयारुणपाण्डुसानौ
विशाखयूपं समुपेत्य चक्रु;स्तदा निवासं पुरुषप्रवीराः
वराहनानामृगपक्षिजुष्टं; महद्वनं चैत्ररथप्रकाशम्
शिवेन यात्वा मृगयाप्रधानाः; संवत्सरं तत्र वने विजह्रुः
तत्राससादातिबलं भुजंगं; क्षुधार्दितं मृत्युमिवोग्ररूपम्
वृकोदरः पर्वतकन्दरायां; विषादमोहव्यथितान्तरात्मा
द्वीपोऽभवद्यत्र वृकोदरस्य; युधिष्ठिरो धर्मभृतां वरिष्ठः
अमोक्षयद्यस्तमनन्ततेजा; ग्राहेण संवेष्टितसर्वगात्रम्
ते द्वादशं वर्षमथोपयान्तं; वने विहर्तुं कुरवः प्रतीताः
तस्माद्वनाच्चैत्ररथप्रकाशा;च्छ्रिया ज्वलन्तस्तपसा च युक्ताः
ततश्च यात्वा मरुधन्वपार्श्वं; सदा धनुर्वेदरतिप्रधानाः
सरस्वतीमेत्य निवासकामाः; सरस्ततो द्वैतवनं प्रतीयुः
समीक्ष्य तान्द्वैतवने निविष्टा;न्निवासिनस्तत्र ततोऽभिजग्मुः
तपोदमाचारसमाधियुक्ता;स्तृणोदपात्राहरणाश्मकुट्टाः
प्लक्षाक्षरौहीतकवेतसाश्च; स्नुहा बदर्यः खदिराः शिरीषाः
बिल्वेङ्गुदाः पीलुशमीकरीराः; सरस्वतीतीररुहा बभूवुः
तां यक्षगन्धर्वमहर्षिकान्ता;मायागभूतामिव देवतानाम्
सरस्वतीं प्रीतियुताश्चरन्तः; सुखं विजह्रुर्नरदेवपुत्राः