Vana Parva, Adhyaya 173, Verse 1
तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः
अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्मिन्कृतास्त्रे रथिनां प्रधाने; प्रत्यागते भवनाद्वृत्रहन्तुः
अतः परं किमकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन
वनेषु तेष्वेव तु ते नरेन्द्राः; सहार्जुनेनेन्द्रसमेन वीराः
तस्मिंश्च शैलप्रवरे सुरम्ये; धनेश्वराक्रीडगता विजह्रुः
वेश्मानि तान्यप्रतिमानि पश्य;न्क्रीडाश्च नानाद्रुमसंनिकर्षाः
चचार धन्वी बहुधा नरेन्द्रः; सोऽस्त्रेषु यत्तः सततं किरीटी
अवाप्य वासं नरदेवपुत्राः; प्रसादजं वैश्रवणस्य राज्ञः
न प्राणिनां ते स्पृहयन्ति राज;ञ्शिवश्च कालः स बभूव तेषाम्
समेत्य पार्थेन यथैकरात्र;मूषुः समास्तत्र तदा चतस्रः
पूर्वाश्च षट्ता दश पाण्डवानां; शिवा बभूवुर्वसतां वनेषु
ततोऽब्रवीद्वायुसुतस्तरस्वी; जिष्णुश्च राजानमुपोपविश्य
यमौ च वीरौ सुरराजकल्पा;वेकान्तमास्थाय हितं प्रियं च
तव प्रतिज्ञां कुरुराज सत्यां; चिकीर्षमाणास्त्वदनु प्रियं च
ततोऽनुगच्छाम वनान्यपास्य; सुयोधनं सानुचरं निहन्तुम्
एकादशं वर्षमिदं वसामः; सुयोधनेनात्तसुखाः सुखार्हाः
तं वञ्चयित्वाधमबुद्धिशील;मज्ञातवासं सुखमाप्नुयामः
तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन्वनानि
समीपवासेन विलोभितास्ते; ज्ञास्यन्ति नास्मानपकृष्टदेशान्
संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखमुद्धरेम
निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय
सुयोधनायानुचरैर्वृताय; ततो महीमाहर धर्मराज
स्वर्गोपमं शैलमिमं चरद्भिः; शक्यो विहन्तुं नरदेव शोकः
कीर्तिश्च ते भारत पुण्यगन्धा; नश्येत लोकेषु चराचरेषु
तत्प्राप्य राज्यं कुरुपुंगवानां; शक्यं महत्प्राप्तमथ क्रियाश्च
इदं तु शक्यं सततं नरेन्द्र; प्राप्तुं त्वया यल्लभसे कुबेरात्
कुरुष्व बुद्धिं द्विषतां वधाय; कृतागसां भारत निग्रहे च
तेजस्तवोग्रं न सहेत राज;न्समेत्य साक्षादपि वज्रपाणिः
न हि व्यथां जातु करिष्यतस्तौ; समेत्य देवैरपि धर्मराज
त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ; सुपर्णकेतुश्च शिनेश्च नप्ता
यथैव कृष्णोऽप्रतिमो बलेन; तथैव राजन्स शिनिप्रवीरः
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस्तैः
तथैव चावां नरदेववर्य; यमौ च वीरौ कृतिनौ प्रयोगे
त्वदर्थयोगप्रभवप्रधानाः; समं करिष्याम परान्समेत्य
ततस्तदाज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतो वरिष्ठः
प्रदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविदुत्तमौजः
आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः
यथागतं मार्गमवेक्षमाणः; पुनर्गिरिं चैव निरीक्षमाणः
समाप्तकर्मा सहितः सुहृद्भि;र्जित्वा सपत्नान्प्रतिलभ्य राज्यम्
शैलेन्द्र भूयस्तपसे धृतात्मा; द्रष्टा तवास्मीति मतिं चकार
वृतः स सर्वैरनुजैर्द्विजैश्च; तेनैव मार्गेण पतिः कुरूणाम्
उवाह चैनान्सगणांस्तथैव; घटोत्कचः पर्वतनिर्झरेषु
तान्प्रस्थितान्प्रीतिमना महर्षिः; पितेव पुत्राननुशिष्य सर्वान्
स लोमशः प्रीतमना जगाम; दिवौकसां पुण्यतमं निवासम्
तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपोवनानि
महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः प्रययुर्नराग्र्याः