Mahabharata

Vana Parva, Adhyaya 172

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 172, Verse 1

तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः

उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह

Mahabharata

Vana Parva, Adhyaya 172, Verse 2

ततः संचोदयामास सोऽर्जुनं भ्रातृनन्दनम्

दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया

Mahabharata

Vana Parva, Adhyaya 172, Verse 3

ततो धनंजयो राजन्देवैर्दत्तानि पाण्डवः

अस्त्राणि तानि दिव्यानि दर्शयामास भारत

Mahabharata

Vana Parva, Adhyaya 172, Verse 4

यथान्यायं महातेजाः शौचं परममास्थितः

गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम्

पार्थिवं रथमास्थाय शोभमानो धनंजयः

Mahabharata

Vana Parva, Adhyaya 172, Verse 5

ततः सुदंशितस्तेन कवचेन सुवर्चसा

धनुरादाय गाण्डीवं देवदत्तं च वारिजम्

Mahabharata

Vana Parva, Adhyaya 172, Verse 6

शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः

अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे

Mahabharata

Vana Parva, Adhyaya 172, Verse 7

अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै

समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा

Mahabharata

Vana Parva, Adhyaya 172, Verse 8

क्षुभिताः सरितश्चैव तथैव च महोदधिः

शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः

Mahabharata

Vana Parva, Adhyaya 172, Verse 9

न बभासे सहस्रांशुर्न जज्वाल च पावकः

न वेदाः प्रतिभान्ति स्म द्विजातीनां कथंचन

Mahabharata

Vana Parva, Adhyaya 172, Verse 10

अन्तर्भूमिगता ये च प्राणिनो जनमेजय

पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन्

Mahabharata

Vana Parva, Adhyaya 172, Verse 11

वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः

दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनंजयम्

Mahabharata

Vana Parva, Adhyaya 172, Verse 12

ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः

जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे

Mahabharata

Vana Parva, Adhyaya 172, Verse 13

राजर्षयश्च प्रवरास्तथैव च दिवौकसः

यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः

Mahabharata

Vana Parva, Adhyaya 172, Verse 14

ततः पितामहश्चैव लोकपालाश्च सर्वशः

भगवांश्च महादेवः सगणोऽभ्याययौ तदा

Mahabharata

Vana Parva, Adhyaya 172, Verse 15

ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः

अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः

Mahabharata

Vana Parva, Adhyaya 172, Verse 16

जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः

ननृतुः संघशश्चैव राजन्नप्सरसां गणाः

Mahabharata

Vana Parva, Adhyaya 172, Verse 17

तस्मिंस्तु तुमुले काले नारदः सुरचोदितः

आगम्याह वचः पार्थं श्रवणीयमिदं नृप

Mahabharata

Vana Parva, Adhyaya 172, Verse 18

अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत

नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन

Mahabharata

Vana Parva, Adhyaya 172, Verse 19

अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन

प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन

Mahabharata

Vana Parva, Adhyaya 172, Verse 20

एतानि रक्ष्यमाणानि धनंजय यथागमम्

बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः

Mahabharata

Vana Parva, Adhyaya 172, Verse 21

अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव

भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित्

Mahabharata

Vana Parva, Adhyaya 172, Verse 22

अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे

योज्यमानानि पार्थेन द्विषतामवमर्दने

Mahabharata

Vana Parva, Adhyaya 172, Verse 23

निवार्याथ ततः पार्थं सर्वे देवा यथागतम्

जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ

Mahabharata

Vana Parva, Adhyaya 172, Verse 24

तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः

तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया