Mahabharata

Vana Parva, Adhyaya 168

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 168, Verse 1

ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः

नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत्

Mahabharata

Vana Parva, Adhyaya 168, Verse 2

तदहं वज्रसंकाशैः शरैरिन्द्रास्त्रचोदितैः

अचूर्णयं वेगवद्भिः शतधैकैकमाहवे

Mahabharata

Vana Parva, Adhyaya 168, Verse 3

चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत

तत्राश्मचूर्णमपतत्पावकप्रकरा इव

Mahabharata

Vana Parva, Adhyaya 168, Verse 4

ततोऽश्मवर्षे निहते जलवर्षं महत्तरम्

धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके

Mahabharata

Vana Parva, Adhyaya 168, Verse 5

नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः

आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा

Mahabharata

Vana Parva, Adhyaya 168, Verse 6

धाराणां च निपातेन वायोर्विस्फूर्जितेन च

गर्जितेन च दैत्यानां न प्राज्ञायत किंचन

Mahabharata

Vana Parva, Adhyaya 168, Verse 7

धारा दिवि च संबद्धा वसुधायां च सर्वशः

व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि

Mahabharata

Vana Parva, Adhyaya 168, Verse 8

तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम्

दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 9

हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते

मुमुचुर्दानवा मायामग्निं वायुं च मानद

Mahabharata

Vana Parva, Adhyaya 168, Verse 10

ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः

शैलेन च महास्त्रेण वायोर्वेगमधारयम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 11

तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः

प्राकुर्वन्विविधा माया यौगपद्येन भारत

Mahabharata

Vana Parva, Adhyaya 168, Verse 12

ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम्

अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 13

सा तु मायामयी वृष्टिः पीडयामास मां युधि

अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः

Mahabharata

Vana Parva, Adhyaya 168, Verse 14

तमसा संवृते लोके घोरेण परुषेण च

तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः

Mahabharata

Vana Parva, Adhyaya 168, Verse 15

हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि

असकृच्चाह मां भीतः क्वासीति भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 168, Verse 16

मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि

स च मां विगतज्ञानः संत्रस्त इदमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 168, Verse 17

सुराणामसुराणां च संग्रामः सुमहानभूत्

अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ

Mahabharata

Vana Parva, Adhyaya 168, Verse 18

शम्बरस्य वधे चापि संग्रामः सुमहानभूत्

सारथ्यं देवराजस्य तत्रापि कृतवानहम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 19

तथैव वृत्रस्य वधे संगृहीता हया मया

वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 20

एते मया महाघोराः संग्रामाः पर्युपासिताः

न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव

Mahabharata

Vana Parva, Adhyaya 168, Verse 21

पितामहेन संहारः प्रजानां विहितो ध्रुवम्

न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात्

Mahabharata

Vana Parva, Adhyaya 168, Verse 22

तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना

मोहयिष्यन्दानवानामहं मायामयं बलम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 23

अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम्

अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च

Mahabharata

Vana Parva, Adhyaya 168, Verse 24

अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम्

विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव

Mahabharata

Vana Parva, Adhyaya 168, Verse 25

एवमुक्त्वाहमसृजमस्त्रमायां नराधिप

मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 26

पीड्यमानासु मायासु तासु तास्वसुरेश्वराः

पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः

Mahabharata

Vana Parva, Adhyaya 168, Verse 27

पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः

व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति

Mahabharata

Vana Parva, Adhyaya 168, Verse 28

सुसंगृहीतैर्हरिभिः प्रकाशे सति मातलिः

व्यचरत्स्यन्दनाग्र्येण संग्रामे लोमहर्षणे

Mahabharata

Vana Parva, Adhyaya 168, Verse 29

ततः पर्यपतन्नुग्रा निवातकवचा मयि

तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम्

Mahabharata

Vana Parva, Adhyaya 168, Verse 30

वर्तमाने तथा युद्धे निवातकवचान्तके

नापश्यं सहसा सर्वान्दानवान्माययावृतान्