Mahabharata

Vana Parva, Adhyaya 167

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 167, Verse 1

ततो निवातकवचाः सर्वे वेगेन भारत

अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे

Mahabharata

Vana Parva, Adhyaya 167, Verse 2

आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः

आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन्

Mahabharata

Vana Parva, Adhyaya 167, Verse 3

ततोऽपरे महावीर्याः शूलपट्टिशपाणयः

शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि

Mahabharata

Vana Parva, Adhyaya 167, Verse 4

तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम्

अनिशं सृज्यमानं तैरपतन्मद्रथोपरि

Mahabharata

Vana Parva, Adhyaya 167, Verse 5

अन्ये मामभ्यधावन्त निवातकवचा युधि

शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः

Mahabharata

Vana Parva, Adhyaya 167, Verse 6

तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः

गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे

ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः

Mahabharata

Vana Parva, Adhyaya 167, Verse 7

ततो मातलिना तूर्णं हयास्ते संप्रचोदिताः

रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः

सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान्

Mahabharata

Vana Parva, Adhyaya 167, Verse 8

शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे

तदा मातलिना यत्ता व्यचरन्नल्पका इव

Mahabharata

Vana Parva, Adhyaya 167, Verse 9

तेषां चरणपातेन रथनेमिस्वनेन च

मम बाणनिपातैश्च हतास्ते शतशोऽसुराः

Mahabharata

Vana Parva, Adhyaya 167, Verse 10

गतासवस्तथा चान्ये प्रगृहीतशरासनाः

हतसारथयस्तत्र व्यकृष्यन्त तुरंगमैः

Mahabharata

Vana Parva, Adhyaya 167, Verse 11

ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः

निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः

Mahabharata

Vana Parva, Adhyaya 167, Verse 12

ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम्

अश्वांस्तथा वेगवतो यदयत्नादधारयत्

Mahabharata

Vana Parva, Adhyaya 167, Verse 13

ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे

सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः

Mahabharata

Vana Parva, Adhyaya 167, Verse 14

एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन्

प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः

Mahabharata

Vana Parva, Adhyaya 167, Verse 15

वध्यमानास्ततस्ते तु हयैस्तेन रथेन च

अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे

Mahabharata

Vana Parva, Adhyaya 167, Verse 16

स्पर्धमाना इवास्माभिर्निवातकवचा रणे

शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन्

Mahabharata

Vana Parva, Adhyaya 167, Verse 17

ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः

व्यधमं सायकैराशु शतशोऽथ सहस्रशः

Mahabharata

Vana Parva, Adhyaya 167, Verse 18

ततः संपीड्यमानास्ते क्रोधाविष्टा महासुराः

अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः

Mahabharata

Vana Parva, Adhyaya 167, Verse 19

ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम्

दयितं देवराजस्य माधवं नाम भारत

Mahabharata

Vana Parva, Adhyaya 167, Verse 20

ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः

अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम्

Mahabharata

Vana Parva, Adhyaya 167, Verse 21

छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः

प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः

Mahabharata

Vana Parva, Adhyaya 167, Verse 22

गाण्डीवाद्धि तदा संख्ये यथा भ्रमरपङ्क्तयः

निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत्

Mahabharata

Vana Parva, Adhyaya 167, Verse 23

तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव

अवाकिरन्मां बलवत्तानहं व्यधमं शरैः

Mahabharata

Vana Parva, Adhyaya 167, Verse 24

वध्यमानास्ततस्ते तु निवातकवचाः पुनः

शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन्

Mahabharata

Vana Parva, Adhyaya 167, Verse 25

शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः

ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः

Mahabharata

Vana Parva, Adhyaya 167, Verse 26

तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम्

प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम्

Mahabharata

Vana Parva, Adhyaya 167, Verse 27

इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः

मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः

Mahabharata

Vana Parva, Adhyaya 167, Verse 28

शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः

ततो निवातकवचा मामयुध्यन्त मायया