Vana Parva, Adhyaya 166, Verse 1
ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः
अपश्यमुदधिं भीममपांपतिमथाव्ययम्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः
अपश्यमुदधिं भीममपांपतिमथाव्ययम्
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः
ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः
तिमिंगिलाः कच्छपाश्च तथा तिमितिमिंगिलाः
मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः
तथा सहस्रशस्तत्र रत्नसंघाः प्लवन्त्युत
वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत्
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम्
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात्
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले
नादयन्रथघोषेण तत्पुरं समुपाद्रवत्
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे
मन्वाना देवराजं मां संविग्ना दानवाभवन्
सर्वे संभ्रान्तमनसः शरचापधराः स्थिताः
तथा शूलासिपरशुगदामुसलपाणयः
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते
ततः शङ्खमुपादाय देवदत्तं महास्वनम्
पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम्
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत्
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि
ततो निवातकवचाः सर्व एव समन्ततः
दंशिता विविधैस्त्राणैर्विविधायुधपाणयः
आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि
पट्टिशैः करवालैश्च रथचक्रैश्च भारत
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलंकृतैः
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः
ततो विचार्य बहुधा रथमार्गेषु तान्हयान्
प्राचोदयत्समे देशे मातलिर्भरतर्षभ
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम्
नान्वपश्यं तदा किंचित्तन्मेऽद्भुतमिवाभवत्
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन्
तेन शब्देन महता समुद्रे पर्वतोपमाः
आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः
ततो वेगेन महता दानवा मामुपाद्रवन्
विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः
स संप्रहारस्तुमुलस्तेषां मम च भारत
अवर्तत महाघोरो निवातकवचान्तकः
ततो देवर्षयश्चैव दानवर्षिगणाश्च ये
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे
ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः
अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये