Mahabharata

Vana Parva, Adhyaya 165

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 165, Verse 1

कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः

संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 165, Verse 2

न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि

किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः

अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा

Mahabharata

Vana Parva, Adhyaya 165, Verse 3

अथाब्रवीत्पुनर्देवः संप्रहृष्टतनूरुहः

अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति

Mahabharata

Vana Parva, Adhyaya 165, Verse 4

अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः

ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह

Mahabharata

Vana Parva, Adhyaya 165, Verse 5

अस्त्राणि समवाप्तानि त्वया दश च पञ्च च

पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः

Mahabharata

Vana Parva, Adhyaya 165, Verse 6

प्रयोगमुपसंहारमावृत्तिं च धनंजय

प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः

Mahabharata

Vana Parva, Adhyaya 165, Verse 7

तव गुर्वर्थकालोऽयमुपपन्नः परंतप

प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम्

Mahabharata

Vana Parva, Adhyaya 165, Verse 8

ततोऽहमब्रुवं राजन्देवराजमिदं वचः

विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत्

Mahabharata

Vana Parva, Adhyaya 165, Verse 9

ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा

नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किंचन

Mahabharata

Vana Parva, Adhyaya 165, Verse 10

निवातकवचा नाम दानवा मम शत्रवः

समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत

Mahabharata

Vana Parva, Adhyaya 165, Verse 11

तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः

तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति

Mahabharata

Vana Parva, Adhyaya 165, Verse 12

ततो मातलिसंयुक्तं मयूरसमरोमभिः

हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम्

Mahabharata

Vana Parva, Adhyaya 165, Verse 13

बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम्

स्वरूपसदृशं चैव प्रादादङ्गविभूषणम्

Mahabharata

Vana Parva, Adhyaya 165, Verse 14

अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम्

अजरां ज्यामिमां चापि गाण्डीवे समयोजयत्

Mahabharata

Vana Parva, Adhyaya 165, Verse 15

ततः प्रायामहं तेन स्यन्दनेन विराजता

येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा

Mahabharata

Vana Parva, Adhyaya 165, Verse 16

ततो देवाः सर्व एव तेन घोषेण बोधितः

मन्वाना देवराजं मां समाजग्मुर्विशां पते

दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन

Mahabharata

Vana Parva, Adhyaya 165, Verse 17

तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे

निवातकवचानां तु प्रस्थितं मां वधैषिणम्

निबोधत महाभागाः शिवं चाशास्त मेऽनघाः

Mahabharata

Vana Parva, Adhyaya 165, Verse 18

तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरंदरम्

रथेनानेन मघवा जितवाञ्शम्बरं युधि

नमुचिं बलवृत्रौ च प्रह्लादनरकावपि

Mahabharata

Vana Parva, Adhyaya 165, Verse 19

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च

रथेनानेन दैत्यानां जितवान्मघवान्युधि

Mahabharata

Vana Parva, Adhyaya 165, Verse 20

त्वमप्येतेन कौन्तेय निवातकवचान्रणे

विजेता युधि विक्रम्य पुरेव मघवान्वशी

Mahabharata

Vana Parva, Adhyaya 165, Verse 21

अयं च शङ्खप्रवरो येन जेतासि दानवान्

अनेन विजिता लोकाः शक्रेणापि महात्मना

Mahabharata

Vana Parva, Adhyaya 165, Verse 22

प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम्

प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः

Mahabharata

Vana Parva, Adhyaya 165, Verse 23

स शङ्खी कवची बाणी प्रगृहीतशरासनः

दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया