Mahabharata

Vana Parva, Adhyaya 164

Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 164, Verse 1

ततस्तामवसं प्रीतो रजनीं तत्र भारत

प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः

Mahabharata

Vana Parva, Adhyaya 164, Verse 2

व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम्

अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा

Mahabharata

Vana Parva, Adhyaya 164, Verse 3

तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम्

भगवन्तं महादेवं समेतोऽस्मीति भारत

Mahabharata

Vana Parva, Adhyaya 164, Verse 4

स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः

दृष्टस्त्वया महादेवो यथा नान्येन केनचित्

Mahabharata

Vana Parva, Adhyaya 164, Verse 5

समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः

द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति

Mahabharata

Vana Parva, Adhyaya 164, Verse 6

एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः

अगच्छत्स यथाकामं ब्राह्मणः सूर्यसंनिभः

Mahabharata

Vana Parva, Adhyaya 164, Verse 7

अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः

पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन्

Mahabharata

Vana Parva, Adhyaya 164, Verse 8

दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च

शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः

Mahabharata

Vana Parva, Adhyaya 164, Verse 9

वादित्राणि च दिव्यानि सुघोषाणि समन्ततः

स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः

Mahabharata

Vana Parva, Adhyaya 164, Verse 10

गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च

पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः

Mahabharata

Vana Parva, Adhyaya 164, Verse 11

मरुतां च गणास्तत्र देवयानैरुपागमन्

महेन्द्रानुचरा ये च देवसद्मनिवासिनः

Mahabharata

Vana Parva, Adhyaya 164, Verse 12

ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलंकृतैः

शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः

Mahabharata

Vana Parva, Adhyaya 164, Verse 13

एतस्मिन्नेव काले तु कुबेरो नरवाहनः

दर्शयामास मां राजँल्लक्ष्म्या परमया युतः

Mahabharata

Vana Parva, Adhyaya 164, Verse 14

दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम्

वरुणं देवराजं च यथास्थानमवस्थितम्

Mahabharata

Vana Parva, Adhyaya 164, Verse 15

ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः

सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान्

Mahabharata

Vana Parva, Adhyaya 164, Verse 16

सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शंकरम्

अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः

Mahabharata

Vana Parva, Adhyaya 164, Verse 17

ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान्

प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो

Mahabharata

Vana Parva, Adhyaya 164, Verse 18

गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत

अथ देवा ययुः सर्वे यथागतमरिंदम

Mahabharata

Vana Parva, Adhyaya 164, Verse 19

मघवानपि देवेशो रथमारुह्य सुप्रभम्

उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा

Mahabharata

Vana Parva, Adhyaya 164, Verse 20

पुरैवागमनादस्माद्वेदाहं त्वां धनंजय

अतः परं त्वहं वै त्वां दर्शये भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 164, Verse 21

त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत्

तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव

Mahabharata

Vana Parva, Adhyaya 164, Verse 22

भूयश्चैव तु तप्तव्यं तपः परमदारुणम्

उवाच भगवान्सर्वं तपसश्चोपपादनम्

Mahabharata

Vana Parva, Adhyaya 164, Verse 23

मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति

विदितस्त्वं हि देवानामृषीणां च महात्मनाम्

Mahabharata

Vana Parva, Adhyaya 164, Verse 24

ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम

आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर

Mahabharata

Vana Parva, Adhyaya 164, Verse 25

क्रूरं कर्मास्त्रवित्तात करिष्यसि परंतप

यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि

Mahabharata

Vana Parva, Adhyaya 164, Verse 26

ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन्

मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम्

Mahabharata

Vana Parva, Adhyaya 164, Verse 27

तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप

लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुंगव

Mahabharata

Vana Parva, Adhyaya 164, Verse 28

परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनंजय

ममात्मजस्य वचनं सूपपन्नमिदं तव

Mahabharata

Vana Parva, Adhyaya 164, Verse 29

शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत

वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात्

Mahabharata

Vana Parva, Adhyaya 164, Verse 30

साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम्

वैष्णवानि च सर्वाणि नैरृतानि तथैव च

मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह