Mahabharata

Vana Parva, Adhyaya 162

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 162, Verse 1

एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः

बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम्

Mahabharata

Vana Parva, Adhyaya 162, Verse 2

रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत

पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः

Mahabharata

Vana Parva, Adhyaya 162, Verse 3

तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा

विमानैः सूर्यसंकाशैर्देवराजमरिंदमम्

Mahabharata

Vana Parva, Adhyaya 162, Verse 4

ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम्

मेघनादिनमारुह्य श्रिया परमया ज्वलन्

Mahabharata

Vana Parva, Adhyaya 162, Verse 5

पार्थानभ्याजगामाशु देवराजः पुरंदरः

आगत्य च सहस्राक्षो रथादवरुरोह वै

Mahabharata

Vana Parva, Adhyaya 162, Verse 6

तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः

भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत्

Mahabharata

Vana Parva, Adhyaya 162, Verse 7

पूजयामास चैवाथ विधिवद्भूरिदक्षिणः

यथार्हममितात्मानं विधिदृष्टेन कर्मणा

Mahabharata

Vana Parva, Adhyaya 162, Verse 8

धनंजयश्च तेजस्वी प्रणिपत्य पुरंदरम्

भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः

Mahabharata

Vana Parva, Adhyaya 162, Verse 9

आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः

धनंजयमभिप्रेक्ष्य विनीतं स्थितमन्तिके

Mahabharata

Vana Parva, Adhyaya 162, Verse 10

जटिलं देवराजस्य तपोयुक्तमकल्मषम्

हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात्

Mahabharata

Vana Parva, Adhyaya 162, Verse 11

तं तथादीनमनसं राजानं हर्षसंप्लुतम्

उवाच वचनं धीमान्देवराजः पुरंदरः

Mahabharata

Vana Parva, Adhyaya 162, Verse 12

त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव

स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम्

Mahabharata

Vana Parva, Adhyaya 162, Verse 13

अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः प्रयतेन राजन्

कृतप्रियश्चास्मि धनंजयेन; जेतुं न शक्यस्त्रिभिरेष लोकैः

Mahabharata

Vana Parva, Adhyaya 162, Verse 14

एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम्

जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः

Mahabharata

Vana Parva, Adhyaya 162, Verse 15

धनेश्वरगृहस्थानां पाण्डवानां समागमम्

शक्रेण य इमं विद्वानधीयीत समाहितः

Mahabharata

Vana Parva, Adhyaya 162, Verse 16

संवत्सरं ब्रह्मचारी नियतः संशितव्रतः

स जीवेत निराबाधः सुसुखी शरदां शतम्