Mahabharata

Vana Parva, Adhyaya 161

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 161, Verse 1

तस्मिन्नगेन्द्रे वसतां तु तेषां; महात्मनां सद्व्रतमास्थितानाम्

रतिः प्रमोदश्च बभूव तेषा;माकाङ्क्षतां दर्शनमर्जुनस्य

Mahabharata

Vana Parva, Adhyaya 161, Verse 2

तान्वीर्ययुक्तान्सुविशुद्धसत्त्वां;स्तेजस्विनः सत्यधृतिप्रधानान्

संप्रीयमाणा बहवोऽभिजग्मु;र्गन्धर्वसंघाश्च महर्षयश्च

Mahabharata

Vana Parva, Adhyaya 161, Verse 3

तं पादपैः पुष्पधरैरुपेतं; नगोत्तमं प्राप्य महारथानाम्

मनःप्रसादः परमो बभूव; यथा दिवं प्राप्य मरुद्गणानाम्

Mahabharata

Vana Parva, Adhyaya 161, Verse 4

मयूरहंसस्वननादितानि; पुष्पोपकीर्णानि महाचलस्य

शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षमवाप्य तस्थुः

Mahabharata

Vana Parva, Adhyaya 161, Verse 5

साक्षात्कुबेरेण कृताश्च तस्मि;न्नगोत्तमे संवृतकूलरोधसः

कादम्बकारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीरपश्यन्

Mahabharata

Vana Parva, Adhyaya 161, Verse 6

क्रीडाप्रदेशांश्च समृद्धरूपा;न्सुचित्रमाल्यावृतजातशोभान्

मणिप्रवेकान्सुमनोहरांश्च; यथा भवेयुर्धनदस्य राज्ञः

Mahabharata

Vana Parva, Adhyaya 161, Verse 7

अनेकवर्णैश्च सुगन्धिभिश्च; महाद्रुमैः संततमभ्रमालिभिः

तपःप्रधानाः सततं चरन्तः; शृङ्गं गिरेश्चिन्तयितुं न शेकुः

Mahabharata

Vana Parva, Adhyaya 161, Verse 8

स्वतेजसा तस्य नगोत्तमस्य; महौषधीनां च तथा प्रभावात्

विभक्तभावो न बभूव कश्चि;दहर्निशानां पुरुषप्रवीर

Mahabharata

Vana Parva, Adhyaya 161, Verse 9

यमास्थितः स्थावरजङ्गमानि; विभावसुर्भावयतेऽमितौजाः

तस्योदयं चास्तमयं च वीरा;स्तत्र स्थितास्ते ददृशुर्नृसिंहाः

Mahabharata

Vana Parva, Adhyaya 161, Verse 10

रवेस्तमिस्रागमनिर्गमांस्ते; तथोदयं चास्तमयं च वीराः

समावृताः प्रेक्ष्य तमोनुदस्य; गभस्तिजालैः प्रदिशो दिशश्च

Mahabharata

Vana Parva, Adhyaya 161, Verse 11

स्वाध्यायवन्तः सततक्रियाश्च; धर्मप्रधानाश्च शुचिव्रताश्च

सत्ये स्थितास्तस्य महारथस्य; सत्यव्रतस्यागमनप्रतीक्षाः

Mahabharata

Vana Parva, Adhyaya 161, Verse 12

इहैव हर्षोऽस्तु समागतानां; क्षिप्रं कृतास्त्रेण धनंजयेन

इति ब्रुवन्तः परमाशिषस्ते; पार्थास्तपोयोगपरा बभूवुः

Mahabharata

Vana Parva, Adhyaya 161, Verse 13

दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयतामभीक्ष्णम्

बभूव रात्रिर्दिवसश्च तेषां; संवत्सरेणैव समानरूपः

Mahabharata

Vana Parva, Adhyaya 161, Verse 14

यदैव धौम्यानुमते महात्मा; कृत्वा जटाः प्रव्रजितः स जिष्णुः

तदैव तेषां न बभूव हर्षः; कुतो रतिस्तद्गतमानसानाम्

Mahabharata

Vana Parva, Adhyaya 161, Verse 15

भ्रातुर्नियोगात्तु युधिष्ठिरस्य; वनादसौ वारणमत्तगामी

यत्काम्यकात्प्रव्रजितः स जिष्णु;स्तदैव ते शोकहता बभूवुः

Mahabharata

Vana Parva, Adhyaya 161, Verse 16

तथा तु तं चिन्तयतां सिताश्व;मस्त्रार्थिनं वासवमभ्युपेतम्

मासोऽथ कृच्छ्रेण तदा व्यतीत;स्तस्मिन्नगे भारत भारतानाम्

Mahabharata

Vana Parva, Adhyaya 161, Verse 17

ततः कदाचिद्धरिसंप्रयुक्तं; महेन्द्रवाहं सहसोपयातम्

विद्युत्प्रभं प्रेक्ष्य महारथानां; हर्षोऽर्जुनं चिन्तयतां बभूव

Mahabharata

Vana Parva, Adhyaya 161, Verse 18

स दीप्यमानः सहसान्तरिक्षं; प्रकाशयन्मातलिसंगृहीतः

बभौ महोल्केव घनान्तरस्था; शिखेव चाग्नेर्ज्वलिता विधूमा

Mahabharata

Vana Parva, Adhyaya 161, Verse 19

तमास्थितः संददृशे किरीटी; स्रग्वी वराण्याभरणानि बिभ्रत्

धनंजयो वज्रधरप्रभावः; श्रिया ज्वलन्पर्वतमाजगाम

Mahabharata

Vana Parva, Adhyaya 161, Verse 20

स शैलमासाद्य किरीटमाली; महेन्द्रवाहादवरुह्य तस्मात्

धौम्यस्य पादावभिवाद्य पूर्व;मजातशत्रोस्तदनन्तरं च

Mahabharata

Vana Parva, Adhyaya 161, Verse 21

वृकोदरस्यापि ववन्द पादौ; माद्रीसुताभ्यामभिवादितश्च

समेत्य कृष्णां परिसान्त्व्य चैनां; प्रह्वोऽभवद्भ्रातुरुपह्वरे सः

Mahabharata

Vana Parva, Adhyaya 161, Verse 22

बभूव तेषां परमः प्रहर्ष;स्तेनाप्रमेयेण समागतानाम्

स चापि तान्प्रेक्ष्य किरीटमाली; ननन्द राजानमभिप्रशंसन्

Mahabharata

Vana Parva, Adhyaya 161, Verse 23

यमास्थितः सप्त जघान पूगा;न्दितेः सुतानां नमुचेर्निहन्ता

तमिन्द्रवाहं समुपेत्य पार्थाः; प्रदक्षिणं चक्रुरदीनसत्त्वाः

Mahabharata

Vana Parva, Adhyaya 161, Verse 24

ते मातलेश्चक्रुरतीव हृष्टाः; सत्कारमग्र्यं सुरराजतुल्यम्

सर्वं यथावच्च दिवौकसस्ता;न्पप्रच्छुरेनं कुरुराजपुत्राः

Mahabharata

Vana Parva, Adhyaya 161, Verse 25

तानप्यसौ मातलिरभ्यनन्द;त्पितेव पुत्राननुशिष्य चैनान्

ययौ रथेनाप्रतिमप्रभेण; पुनः सकाशं त्रिदिवेश्वरस्य

Mahabharata

Vana Parva, Adhyaya 161, Verse 26

गते तु तस्मिन्वरदेववाहे; शक्रात्मजः सर्वरिपुप्रमाथी

शक्रेण दत्तानि ददौ महात्मा; महाधनान्युत्तमरूपवन्ति

दिवाकराभाणि विभूषणानि; प्रीतः प्रियायै सुतसोममात्रे

Mahabharata

Vana Parva, Adhyaya 161, Verse 27

ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम्

विप्रर्षभाणामुपविश्य मध्ये; सर्वं यथावत्कथयां बभूव

Mahabharata

Vana Parva, Adhyaya 161, Verse 28

एवं मयास्त्राण्युपशिक्षितानि; शक्राच्च वाताच्च शिवाच्च साक्षात्

तथैव शीलेन समाधिना च; प्रीताः सुरा मे सहिताः सहेन्द्राः

Mahabharata

Vana Parva, Adhyaya 161, Verse 29

संक्षेपतो वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि प्रवेशम्

माद्रीसुताभ्यां सहितः किरीटी; सुष्वाप तामावसतिं प्रतीतः