Vana Parva, Adhyaya 160, Verse 1
ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन्
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत्
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति
शैलराजो महाराज मन्दरोऽभिविराजते
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम्
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम्
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम्
प्रेतराजस्य भवनमृद्ध्या परमया युतम्
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः
एतं पर्वतराजानं समुद्रं च महोदधिम्
आवसन्वरुणो राजा भूतानि परिरक्षति
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान्
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः
यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः
भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम्
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान्
तेषामपि महामेरुः स्थानं शिवमनामयम्
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च
सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा
देशं विरजसं पश्य मेरोः शिखरमुत्तमम्
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम्
अनादिनिधनं देवं प्रभुं नारायणं परम्
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते
देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम्
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः
तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च
स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम्
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम्
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम्
अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः
उदीचीं भजते काष्ठां दिशमेष विभावसुः
स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः
स मासं विभजन्कालं बहुधा पर्वसंधिषु
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति
एवमेष परिक्रम्य महामेरुमतन्द्रितः
भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम्
तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत्
मार्गमेतदसंबाधमादित्यः परिवर्तते
सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम्
ततः सर्वाणि भूतानि कालः शिशिरमृच्छति