Mahabharata

Vana Parva, Adhyaya 159

Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 159, Verse 1

युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः

लोकतन्त्रविधानानामेष पञ्चविधो विधिः

Mahabharata

Vana Parva, Adhyaya 159, Verse 2

धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत

पराक्रमविधानज्ञा नराः कृतयुगेऽभवन्

Mahabharata

Vana Parva, Adhyaya 159, Verse 3

धृतिमान्देशकालज्ञः सर्वधर्मविधानवित्

क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै

Mahabharata

Vana Parva, Adhyaya 159, Verse 4

य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु

स लोके लभते वीर यशः प्रेत्य च सद्गतिम्

Mahabharata

Vana Parva, Adhyaya 159, Verse 5

देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम्

संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह

Mahabharata

Vana Parva, Adhyaya 159, Verse 6

पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते

कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति

Mahabharata

Vana Parva, Adhyaya 159, Verse 7

अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित्

वृथाचारसमारम्भः प्रेत्य चेह च नश्यति

Mahabharata

Vana Parva, Adhyaya 159, Verse 8

साहसे वर्तमानानां निकृतीनां दुरात्मनाम्

सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः

Mahabharata

Vana Parva, Adhyaya 159, Verse 9

अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः

निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ

Mahabharata

Vana Parva, Adhyaya 159, Verse 10

आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम्

तामिस्रं प्रथमं पक्षं वीतशोकभयो वस

Mahabharata

Vana Parva, Adhyaya 159, Verse 11

अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः

मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः

रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः

Mahabharata

Vana Parva, Adhyaya 159, Verse 12

साहसेषु च संतिष्ठन्निह शैले वृकोदरः

वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर

Mahabharata

Vana Parva, Adhyaya 159, Verse 13

इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः

उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः

Mahabharata

Vana Parva, Adhyaya 159, Verse 14

तथैव चान्नपानानि स्वादूनि च बहूनि च

उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ

Mahabharata

Vana Parva, Adhyaya 159, Verse 15

यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः

धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः

Mahabharata

Vana Parva, Adhyaya 159, Verse 16

आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः

रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 159, Verse 17

अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित्

भीमसेनादवरजः फल्गुनः कुशली दिवि

Mahabharata

Vana Parva, Adhyaya 159, Verse 18

याः काश्चन मता लोकेष्वग्र्याः परमसंपदः

जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये

Mahabharata

Vana Parva, Adhyaya 159, Verse 19

दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्

एतान्यपि महासत्त्वे स्थितान्यमिततेजसि

Mahabharata

Vana Parva, Adhyaya 159, Verse 20

न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम्

न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु

Mahabharata

Vana Parva, Adhyaya 159, Verse 21

स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः

मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत

Mahabharata

Vana Parva, Adhyaya 159, Verse 22

योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत्

स शंतनुर्महातेजाः पितुस्तव पितामहः

प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना

Mahabharata

Vana Parva, Adhyaya 159, Verse 23

सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः

पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः

सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति

Mahabharata

Vana Parva, Adhyaya 159, Verse 24

अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः

स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति

Mahabharata

Vana Parva, Adhyaya 159, Verse 25

ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ

प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः

Mahabharata

Vana Parva, Adhyaya 159, Verse 26

ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम्

मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः

Mahabharata

Vana Parva, Adhyaya 159, Verse 27

स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः

कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः

Mahabharata

Vana Parva, Adhyaya 159, Verse 28

शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः

साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः

Mahabharata

Vana Parva, Adhyaya 159, Verse 29

एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम्

अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः

Mahabharata

Vana Parva, Adhyaya 159, Verse 30

तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः

यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः