Vana Parva, Adhyaya 158, Verse 1
श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि
Containing 59 sacred Sanskrit shlokas with multi-author commentaries and translations.
श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन्
द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा
ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः
ददृशुस्ते महेष्वासा भीमसेनमरिंदमम्
स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान्
महाबलान्महाघोरान्भीमसेनेन पातितान्
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः
निहत्य समरे सर्वान्दानवान्मघवानिव
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम्
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम्
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत
लोकपालैर्महाभागैर्दिवं देववरैरिव
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान्
भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम्
साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम्
नैतत्ते सदृशं वीर मुनेरिव मृषावचः
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम्
अर्थधर्मावनादृत्य यः पापे कुरुते मनः
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम्
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम्
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः
विरराम महातेजास्तमेवार्थं विचिन्तयन्
ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति
ते जवेन महावेगाः प्राप्य वैश्रवणालयम्
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः
न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन्
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः
राक्षसा निहताः सर्वे तव देव पुरःसराः
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर
एकेन सहिताः संख्ये हताः क्रोधवशा गणाः
प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप
शेरते निहता देव गतसत्त्वाः परासवः
लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः
मानुषेण कृतं कर्म विधत्स्व यदनन्तरम्
स तच्छ्रुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत्
अथाभ्रघनसंकाशं गिरिकूटमिवोच्छ्रितम्
हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम्
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः
तेजोबलजवोपेता नानारत्नविभूषिताः
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः
स तमास्थाय भगवान्राजराजो महारथम्
प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः
तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम्
रक्ताक्षा हेमसंकाशा महाकाया महाबलाः
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः
जवेन महता वीराः परिवार्योपतस्थिरे
तं महान्तमुपायान्तं धनेश्वरमुपान्तिके
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम्
कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान्
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा