Mahabharata

Vana Parva, Adhyaya 155

Containing 90 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 155, Verse 1

निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम्

अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः

Mahabharata

Vana Parva, Adhyaya 155, Verse 2

स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः

द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम्

Mahabharata

Vana Parva, Adhyaya 155, Verse 3

समाश्चतस्रोऽभिगताः शिवेन चरतां वने

कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम्

Mahabharata

Vana Parva, Adhyaya 155, Verse 4

प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम्

तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः

Mahabharata

Vana Parva, Adhyaya 155, Verse 5

कृतश्च समयस्तेन पार्थेनामिततेजसा

पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि

Mahabharata

Vana Parva, Adhyaya 155, Verse 6

तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिंदमम्

देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम्

Mahabharata

Vana Parva, Adhyaya 155, Verse 7

इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः

कारणं चैव तत्तेषामाचचक्षे तपस्विनाम्

Mahabharata

Vana Parva, Adhyaya 155, Verse 8

तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम्

ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च

Mahabharata

Vana Parva, Adhyaya 155, Verse 9

सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ

क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि

Mahabharata

Vana Parva, Adhyaya 155, Verse 10

तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम्

प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परंतपः

Mahabharata

Vana Parva, Adhyaya 155, Verse 11

द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा

राक्षसैरनुयातश्च लोमशेनाभिरक्षितः

Mahabharata

Vana Parva, Adhyaya 155, Verse 12

क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित्

तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः

Mahabharata

Vana Parva, Adhyaya 155, Verse 13

ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन्

सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम्

Mahabharata

Vana Parva, Adhyaya 155, Verse 14

अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम्

गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम्

Mahabharata

Vana Parva, Adhyaya 155, Verse 15

उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः

प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि

Mahabharata

Vana Parva, Adhyaya 155, Verse 16

ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात्

पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते

Mahabharata

Vana Parva, Adhyaya 155, Verse 17

सलिलावर्तसंजातैः पुष्पितैश्च महीरुहैः

समावृतं पुण्यतममाश्रमं वृषपर्वणः

Mahabharata

Vana Parva, Adhyaya 155, Verse 18

तमुपक्रम्य राजर्षिं धर्मात्मानमरिंदमाः

पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः

Mahabharata

Vana Parva, Adhyaya 155, Verse 19

अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान्

पूजिताश्चावसंस्तत्र सप्तरात्रमरिंदमाः

Mahabharata

Vana Parva, Adhyaya 155, Verse 20

अष्टमेऽहनि संप्राप्ते तमृषिं लोकविश्रुतम्

आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन्

Mahabharata

Vana Parva, Adhyaya 155, Verse 21

एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे

न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान्

Mahabharata

Vana Parva, Adhyaya 155, Verse 22

ततस्ते वरवस्त्राणि शुभान्याभरणानि च

न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः

Mahabharata

Vana Parva, Adhyaya 155, Verse 23

अतीतानागते विद्वान्कुशलः सर्वधर्मवित्

अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान्

Mahabharata

Vana Parva, Adhyaya 155, Verse 24

तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम्

कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः

तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः

Mahabharata

Vana Parva, Adhyaya 155, Verse 25

उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा

अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च

वृषपर्वा निववृते पन्थानमुपदिश्य च

Mahabharata

Vana Parva, Adhyaya 155, Verse 26

नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः

पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 155, Verse 27

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु

पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः

Mahabharata

Vana Parva, Adhyaya 155, Verse 28

महाभ्रघनसंकाशं सलिलोपहितं शुभम्

मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम्

Mahabharata

Vana Parva, Adhyaya 155, Verse 29

ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा

अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान्

Mahabharata

Vana Parva, Adhyaya 155, Verse 30

उपर्युपरि शैलस्य गुहाः परमदुर्गमाः

सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः