Mahabharata

Vana Parva, Adhyaya 154

Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 154, Verse 1

ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान्

गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च

Mahabharata

Vana Parva, Adhyaya 154, Verse 2

रहितान्भीमसेनेन कदाचित्तान्यदृच्छया

जहार धर्मराजानं यमौ कृष्णां च राक्षसः

Mahabharata

Vana Parva, Adhyaya 154, Verse 3

ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः

इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा

Mahabharata

Vana Parva, Adhyaya 154, Verse 4

परीक्षमाणः पार्थानां कलापानि धनूंषि च

अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः

Mahabharata

Vana Parva, Adhyaya 154, Verse 5

स भीमसेने निष्क्रान्ते मृगयार्थमरिंदमे

अन्यद्रूपं समास्थाय विकृतं भैरवं महत्

Mahabharata

Vana Parva, Adhyaya 154, Verse 6

गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च

प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान्

Mahabharata

Vana Parva, Adhyaya 154, Verse 7

सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः

आक्रन्दद्भीमसेनं वै येन यातो महाबलः

Mahabharata

Vana Parva, Adhyaya 154, Verse 8

तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः

धर्मस्ते हीयते मूढ न चैनं समवेक्षसे

Mahabharata

Vana Parva, Adhyaya 154, Verse 9

येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि

गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा

मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि

Mahabharata

Vana Parva, Adhyaya 154, Verse 10

समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते

इमं च लोकं शोचन्तमनुशोचन्ति देवताः

पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि

Mahabharata

Vana Parva, Adhyaya 154, Verse 11

वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस

राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम्

Mahabharata

Vana Parva, Adhyaya 154, Verse 12

न च राजावमन्तव्यो रक्षसा जात्वनागसि

अणुरप्यपचारश्च नास्त्यस्माकं नराशन

Mahabharata

Vana Parva, Adhyaya 154, Verse 13

द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित्

येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः

Mahabharata

Vana Parva, Adhyaya 154, Verse 14

स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः

भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि

Mahabharata

Vana Parva, Adhyaya 154, Verse 15

एवमेव वृथाचारो वृथावृद्धो वृथामतिः

वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि

Mahabharata

Vana Parva, Adhyaya 154, Verse 16

अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः

प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर

Mahabharata

Vana Parva, Adhyaya 154, Verse 17

अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि

अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम्

Mahabharata

Vana Parva, Adhyaya 154, Verse 18

एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम्

विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया

Mahabharata

Vana Parva, Adhyaya 154, Verse 19

ततो युधिष्ठिरस्तस्य भारिकः समपद्यत

स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत्

Mahabharata

Vana Parva, Adhyaya 154, Verse 20

अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः

मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता

Mahabharata

Vana Parva, Adhyaya 154, Verse 21

नातिदूरे महाबाहुर्भविता पवनात्मजः

अस्मिन्मुहूर्ते संप्राप्ते न भविष्यति राक्षसः

Mahabharata

Vana Parva, Adhyaya 154, Verse 22

सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम्

उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम्

Mahabharata

Vana Parva, Adhyaya 154, Verse 23

राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम्

यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा

Mahabharata

Vana Parva, Adhyaya 154, Verse 24

एष चास्मान्वयं चैनं युध्यमानाः परंतप

सूदयेम महाबाहो देशकालो ह्ययं नृप

Mahabharata

Vana Parva, Adhyaya 154, Verse 25

क्षत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम

जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम्

Mahabharata

Vana Parva, Adhyaya 154, Verse 26

राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि

नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत

Mahabharata

Vana Parva, Adhyaya 154, Verse 27

भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः

हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि

Mahabharata

Vana Parva, Adhyaya 154, Verse 28

तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया

प्रादृश्यत महाबाहुः सवज्र इव वासवः

Mahabharata

Vana Parva, Adhyaya 154, Verse 29

सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम्

क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा

Mahabharata

Vana Parva, Adhyaya 154, Verse 30

मार्गाच्च राक्षसं मूढं कालोपहतचेतसम्

भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम्