Mahabharata

Vana Parva, Adhyaya 153

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 153, Verse 1

ततस्तानि महार्हाणि दिव्यानि भरतर्षभ

बहूनि बहुरूपाणि विरजांसि समाददे

Mahabharata

Vana Parva, Adhyaya 153, Verse 2

ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः

प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन्

Mahabharata

Vana Parva, Adhyaya 153, Verse 3

पपात महती चोल्का सनिर्घाता महाप्रभा

निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः

Mahabharata

Vana Parva, Adhyaya 153, Verse 4

निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते

चचाल पृथिवी चापि पांसुवर्षं पपात च

Mahabharata

Vana Parva, Adhyaya 153, Verse 5

सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः

तमोवृतमभूत्सर्वं न प्रज्ञायत किंचन

Mahabharata

Vana Parva, Adhyaya 153, Verse 6

तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः

उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति

Mahabharata

Vana Parva, Adhyaya 153, Verse 7

सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः

यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः

Mahabharata

Vana Parva, Adhyaya 153, Verse 8

एवमुक्त्वा ततो राजा वीक्षां चक्रे समन्ततः

अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः

Mahabharata

Vana Parva, Adhyaya 153, Verse 9

तत्र कृष्णां यमौ चैव समीपस्थानरिंदमः

पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे

Mahabharata

Vana Parva, Adhyaya 153, Verse 10

कच्चिन्न भीमः पाञ्चालि किंचित्कृत्यं चिकीर्षति

कृतवानपि वा वीरः साहसं साहसप्रियः

Mahabharata

Vana Parva, Adhyaya 153, Verse 11

इमे ह्यकस्मादुत्पाता महासमरदर्शिनः

दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः

Mahabharata

Vana Parva, Adhyaya 153, Verse 12

तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी

प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी

Mahabharata

Vana Parva, Adhyaya 153, Verse 13

यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना

तन्मया भीमसेनस्य प्रीतयाद्योपपादितम्

Mahabharata

Vana Parva, Adhyaya 153, Verse 14

अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि

तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति

Mahabharata

Vana Parva, Adhyaya 153, Verse 15

स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः

प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः

Mahabharata

Vana Parva, Adhyaya 153, Verse 16

उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत्

गच्छाम सहितास्तूर्णं येन यातो वृकोदरः

Mahabharata

Vana Parva, Adhyaya 153, Verse 17

वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान्

त्वमप्यमरसंकाश वह कृष्णां घटोत्कच

Mahabharata

Vana Parva, Adhyaya 153, Verse 18

व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः

चिरं च तस्य कालोऽयं स च वायुसमो जवे

Mahabharata

Vana Parva, Adhyaya 153, Verse 19

तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने

उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम्

Mahabharata

Vana Parva, Adhyaya 153, Verse 20

तमन्वियाम भवतां प्रभावाद्रजनीचराः

पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम्

Mahabharata

Vana Parva, Adhyaya 153, Verse 21

तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा

उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ

Mahabharata

Vana Parva, Adhyaya 153, Verse 22

आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः

लोमशेनैव सहिताः प्रययुः प्रीतमानसाः

Mahabharata

Vana Parva, Adhyaya 153, Verse 23

ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने

प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम्

Mahabharata

Vana Parva, Adhyaya 153, Verse 24

तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम्

ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान्

Mahabharata

Vana Parva, Adhyaya 153, Verse 25

उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम्

प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम्

Mahabharata

Vana Parva, Adhyaya 153, Verse 26

तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः

उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम्

Mahabharata

Vana Parva, Adhyaya 153, Verse 27

साहसं बत भद्रं ते देवानामपि चाप्रियम्

पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम्

Mahabharata

Vana Parva, Adhyaya 153, Verse 28

अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च

तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः

Mahabharata

Vana Parva, Adhyaya 153, Verse 29

एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः

प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः

Mahabharata

Vana Parva, Adhyaya 153, Verse 30

ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम्

नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान्

विनयेनानताः सर्वे प्रणिपेतुश्च भारत