Mahabharata

Vana Parva, Adhyaya 152

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 152, Verse 1

पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः

विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः

Mahabharata

Vana Parva, Adhyaya 152, Verse 2

अपश्यत्तत्र पाञ्चाली सौगन्धिकमनुत्तमम्

अनिलोढमितो नूनं सा बहूनि परीप्सति

Mahabharata

Vana Parva, Adhyaya 152, Verse 3

तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम्

पुष्पाहारमिह प्राप्तं निबोधत निशाचराः

Mahabharata

Vana Parva, Adhyaya 152, Verse 4

आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ

नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा

Mahabharata

Vana Parva, Adhyaya 152, Verse 5

देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर

आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च

गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव

Mahabharata

Vana Parva, Adhyaya 152, Verse 6

अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम्

विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम्

Mahabharata

Vana Parva, Adhyaya 152, Verse 7

तमनादृत्य पद्मानि जिहीर्षसि बलादितः

धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम्

Mahabharata

Vana Parva, Adhyaya 152, Verse 8

राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके

दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे

Mahabharata

Vana Parva, Adhyaya 152, Verse 9

न हि याचन्ति राजान एष धर्मः सनातनः

न चाहं हातुमिच्छामि क्षात्रधर्मं कथंचन

Mahabharata

Vana Parva, Adhyaya 152, Verse 10

इयं च नलिनी रम्या जाता पर्वतनिर्झरे

नेयं भवनमासाद्य कुबेरस्य महात्मनः

Mahabharata

Vana Parva, Adhyaya 152, Verse 11

तुल्या हि सर्वभूतानामियं वैश्रवणस्य च

एवंगतेषु द्रव्येषु कः कं याचितुमर्हति

Mahabharata

Vana Parva, Adhyaya 152, Verse 12

इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत

ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान्

मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः

Mahabharata

Vana Parva, Adhyaya 152, Verse 13

कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः

व्यगाहत महातेजास्ते तं सर्वे न्यवारयन्

Mahabharata

Vana Parva, Adhyaya 152, Verse 14

गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम्

क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते; शस्त्राणि चोद्यम्य विवृत्तनेत्राः

Mahabharata

Vana Parva, Adhyaya 152, Verse 15

ततः स गुर्वीं यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम्

प्रगृह्य तानभ्यपतत्तरस्वी; ततोऽब्रवीत्तिष्ठत तिष्ठतेति

Mahabharata

Vana Parva, Adhyaya 152, Verse 16

ते तं तदा तोमरपट्टिशाद्यै;र्व्याविध्य शस्त्रैः सहसाभिपेतुः

जिघांसवः क्रोधवशाः सुभीमा; भीमं समन्तात्परिवव्रुरुग्राः

Mahabharata

Vana Parva, Adhyaya 152, Verse 17

वातेन कुन्त्यां बलवान्स जातः; शूरस्तरस्वी द्विषतां निहन्ता

सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिरप्रधृष्यः

Mahabharata

Vana Parva, Adhyaya 152, Verse 18

तेषां स मार्गान्विविधान्महात्मा; निहत्य शस्त्राणि च शात्रवाणाम्

यथाप्रवीरान्निजघान वीरः; परःशतान्पुष्करिणीसमीपे

Mahabharata

Vana Parva, Adhyaya 152, Verse 19

ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्याबलं बाहुबलं तथैव

अशक्नुवन्तः सहिताः समन्ता;द्धतप्रवीराः सहसा निवृत्ताः

Mahabharata

Vana Parva, Adhyaya 152, Verse 20

विदीर्यमाणास्तत एव तूर्ण;माकाशमास्थाय विमूढसंज्ञाः

कैलासशृङ्गाण्यभिदुद्रुवुस्ते; भीमार्दिताः क्रोधवशाः प्रभग्नाः

Mahabharata

Vana Parva, Adhyaya 152, Verse 21

स शक्रवद्दानवदैत्यसंघा;न्विक्रम्य जित्वा च रणेऽरिसंघान्

विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततोऽम्बुजानि

Mahabharata

Vana Parva, Adhyaya 152, Verse 22

ततः स पीत्वामृतकल्पमम्भो; भूयो बभूवोत्तमवीर्यतेजाः

उत्पाट्य जग्राह ततोऽम्बुजानि; सौगन्धिकान्युत्तमगन्धवन्ति

Mahabharata

Vana Parva, Adhyaya 152, Verse 23

ततस्तु ते क्रोधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः

भीमस्य वीर्यं च बलं च संख्ये; यथावदाचख्युरतीव दीनाः

Mahabharata

Vana Parva, Adhyaya 152, Verse 24

तेषां वचस्तत्तु निशम्य देवः; प्रहस्य रक्षांशि ततोऽभ्युवाच

गृह्णातु भीमो जलजानि कामं; कृष्णानिमित्तं विदितं ममैतत्

Mahabharata

Vana Parva, Adhyaya 152, Verse 25

ततोऽभ्यनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां प्रवरं विरोषाः

भीमं च तस्यां ददृशुर्नलिन्यां; यथोपजोषं विहरन्तमेकम्