Vana Parva, Adhyaya 151, Verse 1
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम्
कैलासशिखरे रम्ये ददर्श शुभकानने
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम्
कैलासशिखरे रम्ये ददर्श शुभकानने
कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे
सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम्
हरिताम्बुजसंछन्नां दिव्यां कनकपुष्कराम्
पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम्
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम्
ददर्श विमलं तोयं शिवं बहु च पाण्डवः
तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम्
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः
वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः
आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम्
सेवितामृषिभिर्दिव्यां यक्षैः किंपुरुषैस्तथा
राक्षसैः किंनरैश्चैव गुप्तां वैश्रवणेन च
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः
बभूव परमप्रीतो दिव्यं संप्रेक्ष्य तत्सरः
तच्च क्रोधवशा नाम राक्षसा राजशासनात्
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम्
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम्
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिंदमम्
पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः
यच्चिकीर्षुरिह प्राप्तस्तत्संप्रष्टुमिहार्हथ
ततः सर्वे महाबाहुं समासाद्य वृकोदरम्
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि
मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे
यदर्थमसि संप्राप्तस्तदाचक्ष्व महाद्युते