Mahabharata

Vana Parva, Adhyaya 150

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 150, Verse 1

ततः संहृत्य विपुलं तद्वपुः कामवर्धितम्

भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः

Mahabharata

Vana Parva, Adhyaya 150, Verse 2

परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत

श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम्

Mahabharata

Vana Parva, Adhyaya 150, Verse 3

ततः पुनरथोवाच पर्यश्रुनयनो हरिः

भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा

Mahabharata

Vana Parva, Adhyaya 150, Verse 4

गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे

इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित्

Mahabharata

Vana Parva, Adhyaya 150, Verse 5

धनदस्यालयाच्चापि विसृष्टानां महाबल

देशकाल इहायातुं देवगन्धर्वयोषिताम्

Mahabharata

Vana Parva, Adhyaya 150, Verse 6

ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम्

मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह

Mahabharata

Vana Parva, Adhyaya 150, Verse 7

तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते

भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत

Mahabharata

Vana Parva, Adhyaya 150, Verse 8

यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम्

धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम्

Mahabharata

Vana Parva, Adhyaya 150, Verse 9

शिलया नगरं वा तन्मर्दितव्यं मया यदि

यावदद्य करोम्येतत्कामं तव महाबल

Mahabharata

Vana Parva, Adhyaya 150, Verse 10

भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः

प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना

Mahabharata

Vana Parva, Adhyaya 150, Verse 11

कृतमेव त्वया सर्वं मम वानरपुंगव

स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे

Mahabharata

Vana Parva, Adhyaya 150, Verse 12

सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन्

तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून्

Mahabharata

Vana Parva, Adhyaya 150, Verse 13

एवमुक्तस्तु हनुमान्भीमसेनमभाषत

भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम्

Mahabharata

Vana Parva, Adhyaya 150, Verse 14

चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम्

यदा सिंहरवं वीर करिष्यसि महाबल

तदाहं बृंहयिष्यामि स्वरवेण रवं तव

Mahabharata

Vana Parva, Adhyaya 150, Verse 15

विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान्

शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत

Mahabharata

Vana Parva, Adhyaya 150, Verse 16

गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः

तेन मार्गेण विपुलं व्यचरद्गन्धमादनम्

Mahabharata

Vana Parva, Adhyaya 150, Verse 17

अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि

माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ

Mahabharata

Vana Parva, Adhyaya 150, Verse 18

स तानि रमणीयानि वनान्युपवनानि च

विलोडयामास तदा सौगन्धिकवनेप्सया

Mahabharata

Vana Parva, Adhyaya 150, Verse 19

फुल्लपद्मविचित्राणि पुष्पितानि वनानि च

मत्तवारणयूथानि पङ्कक्लिन्नानि भारत

वर्षतामिव मेघानां वृन्दानि ददृशे तदा

Mahabharata

Vana Parva, Adhyaya 150, Verse 20

हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने

सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ

Mahabharata

Vana Parva, Adhyaya 150, Verse 21

महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम्

व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत

Mahabharata

Vana Parva, Adhyaya 150, Verse 22

कुसुमानतशाखैश्च ताम्रपल्लवकोमलैः

याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः

Mahabharata

Vana Parva, Adhyaya 150, Verse 23

कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः

प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन्

Mahabharata

Vana Parva, Adhyaya 150, Verse 24

सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु

द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ

Mahabharata

Vana Parva, Adhyaya 150, Verse 25

परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने

काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम्

Mahabharata

Vana Parva, Adhyaya 150, Verse 26

मत्तकारण्डवयुतां चक्रवाकोपशोभिताम्

रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम्

Mahabharata

Vana Parva, Adhyaya 150, Verse 27

तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत्

अपश्यत्प्रीतिजननं बालार्कसदृशद्युति

Mahabharata

Vana Parva, Adhyaya 150, Verse 28

तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः

वनवासपरिक्लिष्टां जगाम मनसा प्रियाम्