Mahabharata

Vana Parva, Adhyaya 149

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 149, Verse 1

पूर्वरूपमदृष्ट्वा ते न यास्यामि कथंचन

यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना

Mahabharata

Vana Parva, Adhyaya 149, Verse 2

एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवंगमः

तद्रूपं दर्शयामास यद्वै सागरलङ्घने

Mahabharata

Vana Parva, Adhyaya 149, Verse 3

भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः

देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः

Mahabharata

Vana Parva, Adhyaya 149, Verse 4

तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः

गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः

Mahabharata

Vana Parva, Adhyaya 149, Verse 5

समुच्छ्रितमहाकायो द्वितीय इव पर्वतः

ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः

दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः

Mahabharata

Vana Parva, Adhyaya 149, Verse 6

तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः

विसिस्मिये तदा भीमो जहृषे च पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 149, Verse 7

तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम्

प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत्

Mahabharata

Vana Parva, Adhyaya 149, Verse 8

आबभाषे च हनुमान्भीमसेनं स्मयन्निव

एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ

Mahabharata

Vana Parva, Adhyaya 149, Verse 9

वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम्

भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा

Mahabharata

Vana Parva, Adhyaya 149, Verse 10

तदद्भुतं महारौद्रं विन्ध्यमन्दरसंनिभम्

दृष्ट्वा हनूमतो वर्ष्म संभ्रान्तः पवनात्मजः

Mahabharata

Vana Parva, Adhyaya 149, Verse 11

प्रत्युवाच ततो भीमः संप्रहृष्टतनूरुहः

कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम्

Mahabharata

Vana Parva, Adhyaya 149, Verse 12

दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो

संहरस्व महावीर्य स्वयमात्मानमात्मना

Mahabharata

Vana Parva, Adhyaya 149, Verse 13

न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम्

अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम्

Mahabharata

Vana Parva, Adhyaya 149, Verse 14

विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै

यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात्

Mahabharata

Vana Parva, Adhyaya 149, Verse 15

त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम्

स्वबाहुबलमाश्रित्य विनाशयितुमोजसा

Mahabharata

Vana Parva, Adhyaya 149, Verse 16

न हि ते किंचिदप्राप्यं मारुतात्मज विद्यते

तव नैकस्य पर्याप्तो रावणः सगणो युधि

Mahabharata

Vana Parva, Adhyaya 149, Verse 17

एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः

प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा

Mahabharata

Vana Parva, Adhyaya 149, Verse 18

एवमेतन्महाबाहो यथा वदसि भारत

भीमसेन न पर्याप्तो ममासौ राक्षसाधमः

Mahabharata

Vana Parva, Adhyaya 149, Verse 19

मया तु तस्मिन्निहते रावणे लोककण्टके

कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम्

Mahabharata

Vana Parva, Adhyaya 149, Verse 20

तेन वीरेण हत्वा तु सगणं राक्षसाधिपम्

आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता

Mahabharata

Vana Parva, Adhyaya 149, Verse 21

तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः

अरिष्टं क्षेममध्वानं वायुना परिरक्षितः

Mahabharata

Vana Parva, Adhyaya 149, Verse 22

एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते

द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः

Mahabharata

Vana Parva, Adhyaya 149, Verse 23

न च ते तरसा कार्यः कुसुमावचयः स्वयम्

दैवतानि हि मान्यानि पुरुषेण विशेषतः

Mahabharata

Vana Parva, Adhyaya 149, Verse 24

बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ

दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत

Mahabharata

Vana Parva, Adhyaya 149, Verse 25

मा तात साहसं कार्षीः स्वधर्ममनुपालय

स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च

Mahabharata

Vana Parva, Adhyaya 149, Verse 26

न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च

धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि

Mahabharata

Vana Parva, Adhyaya 149, Verse 27

अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसंज्ञितः

विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः

Mahabharata

Vana Parva, Adhyaya 149, Verse 28

आचारसंभवो धर्मो धर्माद्वेदाः समुत्थिताः

वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः

Mahabharata

Vana Parva, Adhyaya 149, Verse 29

वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः

बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः

Mahabharata

Vana Parva, Adhyaya 149, Verse 30

पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः

वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः