Vana Parva, Adhyaya 148, Verse 1
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान्
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम्
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम्
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात्
एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम
यत्ते तदासीत्प्लवतः सागरं मकरालयम्
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम्
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत्
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित्
कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम्
अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः
कालं समनुवर्तन्ते यथा भावा युगे युगे
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च
तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह
युगं समनुवर्तामि कालो हि दुरतिक्रमः
युगसंख्यां समाचक्ष्व आचारं च युगे युगे
धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ
कृतं नाम युगं तात यत्र धर्मः सनातनः
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे
न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः
ततः कृतयुगं नाम कालेन गुणतां गतम्
देवदानवगन्धर्वयक्षराक्षसपन्नगाः
नासन्कृतयुगे तात तदा न क्रयविक्रयाः
न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी
अभिध्याय फलं तत्र धर्मः संन्यास एव च
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः
नासूया नापि रुदितं न दर्पो नापि पैशुनम्
न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम्
न भयं न च संतापो न चेर्ष्या न च मत्सरः
ततः परमकं ब्रह्म या गतिर्योगिनां परा
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः
समाश्रमं समाचारं समज्ञानमतीबलम्
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन्
एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम्
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम्
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः
त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः
स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन्
द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते
विष्णुर्वै पीततां याति चतुर्धा वेद एव च
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया
तपोदानप्रवृत्ता च राजसी भवति प्रजा
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः
सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन्
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः