Mahabharata

Vana Parva, Adhyaya 147

Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 147, Verse 1

एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः

भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः

Mahabharata

Vana Parva, Adhyaya 147, Verse 2

को भवान्किंनिमित्तं वा वानरं वपुराश्रितः

ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति

Mahabharata

Vana Parva, Adhyaya 147, Verse 3

कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः

पाण्डवो वायुतनयो भीमसेन इति श्रुतः

Mahabharata

Vana Parva, Adhyaya 147, Verse 4

स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्

हनूमान्वायुतनयो वायुपुत्रमभाषत

Mahabharata

Vana Parva, Adhyaya 147, Verse 5

वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम्

साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 6

वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर

प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 7

नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम्

यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 8

निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति

तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये

Mahabharata

Vana Parva, Adhyaya 147, Verse 9

यद्यागमैर्न विन्देयं तमहं भूतभावनम्

क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 10

क एष हनुमान्नाम सागरो येन लङ्घितः

पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते

Mahabharata

Vana Parva, Adhyaya 147, Verse 11

भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः

रामायणेऽतिविख्यातः शूरो वानरपुंगवः

Mahabharata

Vana Parva, Adhyaya 147, Verse 12

रामपत्नीकृते येन शतयोजनमायतः

सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः

Mahabharata

Vana Parva, Adhyaya 147, Verse 13

स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा

बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे

Mahabharata

Vana Parva, Adhyaya 147, Verse 14

उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम्

मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 15

विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम्

हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 147, Verse 16

प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ

ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 17

सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना

न चाशकच्चालयितुं भीमः पुच्छं महाकपेः

Mahabharata

Vana Parva, Adhyaya 147, Verse 18

उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम्

नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः

Mahabharata

Vana Parva, Adhyaya 147, Verse 19

उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः

स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह

Mahabharata

Vana Parva, Adhyaya 147, Verse 20

यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः

कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः

Mahabharata

Vana Parva, Adhyaya 147, Verse 21

प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्

प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम

Mahabharata

Vana Parva, Adhyaya 147, Verse 22

सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः

पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक्

Mahabharata

Vana Parva, Adhyaya 147, Verse 23

यत्ते मम परिज्ञाने कौतूहलमरिंदम

तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन

Mahabharata

Vana Parva, Adhyaya 147, Verse 24

अहं केसरिणः क्षेत्रे वायुना जगदायुषा

जातः कमलपत्राक्ष हनूमान्नाम वानरः

Mahabharata

Vana Parva, Adhyaya 147, Verse 25

सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्

सर्ववानरराजानौ सर्ववानरयूथपाः

Mahabharata

Vana Parva, Adhyaya 147, Verse 26

उपतस्थुर्महावीर्या मम चामित्रकर्शन

सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा

Mahabharata

Vana Parva, Adhyaya 147, Verse 27

निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे

ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 28

अथ दाशरथिर्वीरो रामो नाम महाबलः

विष्णुर्मानुषरूपेण चचार वसुधामिमाम्

Mahabharata

Vana Parva, Adhyaya 147, Verse 29

स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः

सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः

Mahabharata

Vana Parva, Adhyaya 147, Verse 30

तस्य भार्या जनस्थानाद्रावणेन हृता बलात्

वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम्