Vana Parva, Adhyaya 146, Verse 1
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः
Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.
तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः
षड्रात्रमवसन्वीरा धनंजयदिदृक्षया
तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः
मनोज्ञे काननवरे सर्वभूतमनोरमे
पादपैः पुष्पविकचैः फलभारावनामितैः
शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः
स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः
सरांसि च विचित्राणि प्रसन्नसलिलानि च
कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः
पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः
पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः
ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान्
ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया
सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत्
तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम्
अनिलेनाहृतं भूमौ पतितं जलजं शुचि
तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्
अतीव मुदिता राजन्भीमसेनमथाब्रवीत्
पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्
गन्धसंस्थानसंपन्नं मनसो मम नन्दनम्
एतत्तु धर्मराजाय प्रदास्यामि परंतप
हरेरिदं मे कामाय काम्यके पुनराश्रमे
यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर
तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्
एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता
जगाम धर्मराजाय पुष्पमादाय तत्तदा
अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः
प्रियायाः प्रियकामः स भीमो भीमपराक्रमः
वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्
आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि
रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्
मृगराडिव संक्रुद्धः प्रभिन्न इव कुञ्जरः
द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः
व्यपेतभयसंमोहः शैलमभ्यपतद्बली
स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्
गिरिं चचारारिहरः किंनराचरितं शुभम्
नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः
सर्वभूषणसंपूर्णं भूमेर्भुजमिवोच्छ्रितम्
सर्वर्तुरमणीयेषु गन्धमादनसानुषु
सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन्
पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च
बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम्
गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः
ह्रियमाणश्रमः पित्रा संप्रहृष्टतनूरुहः
पितुः संस्पर्शशीतेन गन्धमादनवायुना
स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्
विलोडयामास तदा पुष्पहेतोररिंदमः
विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः
विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः
मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
अभिरामनदीकुञ्जनिर्झरोदरकन्दरम्
अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम्
दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्
स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः
सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः
भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः
चालयन्नूरुवेगेन लताजालान्यनेकशः
आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ
प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः
प्रांशुः कनकतालाभः सिंहसंहननो युवा