Vana Parva, Adhyaya 145, Verse 1
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम्
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुंगवः
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम्
तव भीम बलेनाहमतिभीमपराक्रम
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम्
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम्
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम्
हैडिम्बेय परिश्रान्ता तव मातापराजिता
त्वं च कामगमस्तात बलवान्वह तां खग
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान्
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः
स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः
एवं सुरमणीयानि वनान्युपवनानि च
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत्
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान्
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान्
विद्याधरगणाकीर्णान्युतान्वानरकिंनरैः
तथा किंपुरुषैश्चैव गन्धर्वैश्च समन्ततः
नदीजालसमाकीर्णान्नानापक्षिरुताकुलान्
नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान्
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम्
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम्
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम्
स्निग्धामविरलच्छायां श्रिया परमया युताम्
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम्
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम्
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम्
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम्
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम्
अदंशमशके देशे बहुमूलफलोदके
नीलशाद्वलसंछन्ने देवगन्धर्वसेविते
सुसमीकृतभूभागे स्वभावविहिते शुभे
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम्
ददृशुः पाण्डवा राजन्सहिता द्विजपुंगवैः
तमसा रहितं पुण्यमनामृष्टं रवेः करैः
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम्
महर्षिगणसंबाधं ब्राह्म्या लक्ष्म्या समन्वितम्
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः
बलिहोमार्चितं दिव्यं सुसंमृष्टानुलेपनम्
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम्
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम्
शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम्
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम्
श्रिया युतमनिर्देश्यं देवचर्योपशोभितम्
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः