Vana Parva, Adhyaya 144, Verse 1
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत्
श्रान्ता दुःखपरीता च वातवर्षेण तेन च
सौकुमार्याच्च पाञ्चाली संमुमोह यशस्विनी
सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा
वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत
आलम्बमाना सहितावूरू गजकरोपमौ
पपात सहसा भूमौ वेपन्ती कदली यथा
तां पतन्तीं वरारोहां सज्जमानां लतामिव
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान्
राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी
आश्वासय महाराज तामिमां श्रमकर्शिताम्
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः
भीमश्च सहदेवश्च सहसा समुपाद्रवन्
तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम्
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता
शेते निपतिता भूमौ सुखार्हा वरवर्णिनी
सुकुमारौ कथं पादौ मुखं च कमलप्रभम्
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम्
किमिदं द्यूतकामेन मया कृतमबुद्धिना
आदाय कृष्णां चरता वने मृगगणायुते
सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन्
इति द्रुपदराजेन पित्रा दत्तायतेक्षणा
तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता
शेते निपतिता भूमौ पापस्य मम कर्मभिः
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्
रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः
सेव्यमाना च शीतेन जलमिश्रेण वायुना
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः
परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे
तदा विश्रामयामासुर्लब्धसंज्ञां तपस्विनीम्
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः
बहवः पर्वता भीम विषमा हिमदुर्गमाः
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ
स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः
अथ वासौ मया जातो विहगो मद्बलोपमः
वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः
अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम्
घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा
कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान्
ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः
उवाच भीमसेनं स पितरं सत्यविक्रमः
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः
आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम्
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे