Mahabharata

Vana Parva, Adhyaya 143

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 143, Verse 1

ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः

बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः

Mahabharata

Vana Parva, Adhyaya 143, Verse 2

परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम्

पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम्

Mahabharata

Vana Parva, Adhyaya 143, Verse 3

सरांसि सरितश्चैव पर्वतांश्च वनानि च

वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि

नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान्

Mahabharata

Vana Parva, Adhyaya 143, Verse 4

आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः

चेरुरुच्चावचाकारान्देशान्विषमसंकटान्

पश्यन्तो मृगजातानि बहूनि विविधानि च

Mahabharata

Vana Parva, Adhyaya 143, Verse 5

ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम्

विविशुस्ते महात्मानः किंनराचरितं गिरिम्

Mahabharata

Vana Parva, Adhyaya 143, Verse 6

प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम्

चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते

Mahabharata

Vana Parva, Adhyaya 143, Verse 7

ततो रेणुः समुद्भूतः सपत्रबहुलो महान्

पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत्

Mahabharata

Vana Parva, Adhyaya 143, Verse 8

न स्म प्रज्ञायते किंचिदावृते व्योम्नि रेणुना

न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम्

Mahabharata

Vana Parva, Adhyaya 143, Verse 9

न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः

आकृष्यमाणा वातेन साश्मचूर्णेन भारत

Mahabharata

Vana Parva, Adhyaya 143, Verse 10

द्रुमाणां वातभग्नानां पततां भूतले भृशम्

अन्येषां च महीजानां शब्दः समभवन्महान्

Mahabharata

Vana Parva, Adhyaya 143, Verse 11

द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम्

इति ते मेनिरे सर्वे पवनेन विमोहिताः

Mahabharata

Vana Parva, Adhyaya 143, Verse 12

ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च

पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे

Mahabharata

Vana Parva, Adhyaya 143, Verse 13

ततः कार्मुकमुद्यम्य भीमसेनो महाबलः

कृष्णामादाय संगत्या तस्थावाश्रित्य पादपम्

Mahabharata

Vana Parva, Adhyaya 143, Verse 14

धर्मराजश्च धौम्यश्च निलिल्याते महावने

अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते

Mahabharata

Vana Parva, Adhyaya 143, Verse 15

नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः

वृक्षानासाद्य संत्रस्तास्तत्र तत्र निलिल्यिरे

Mahabharata

Vana Parva, Adhyaya 143, Verse 16

मन्दीभूते च पवने तस्मिन्रजसि शाम्यति

महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह

Mahabharata

Vana Parva, Adhyaya 143, Verse 17

ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः

प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः

Mahabharata

Vana Parva, Adhyaya 143, Verse 18

ततः सागरगा आपः कीर्यमाणाः समन्ततः

प्रादुरासन्सकलुषाः फेनवत्यो विशां पते

Mahabharata

Vana Parva, Adhyaya 143, Verse 19

वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम्

परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान्

Mahabharata

Vana Parva, Adhyaya 143, Verse 20

तस्मिन्नुपरते वर्षे वाते च समतां गते

गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे

Mahabharata

Vana Parva, Adhyaya 143, Verse 21

निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत

प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम्