Mahabharata

Vana Parva, Adhyaya 142

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 142, Verse 1

भीमसेन यमौ चोभौ पाञ्चालि च निबोधत

नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान्

Mahabharata

Vana Parva, Adhyaya 142, Verse 2

दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम्

अशक्येऽपि व्रजामेति धनंजयदिदृक्षया

Mahabharata

Vana Parva, Adhyaya 142, Verse 3

तन्मे दहति गात्राणि तूलराशिमिवानलः

यच्च वीरं न पश्यामि धनंजयमुपान्तिके

Mahabharata

Vana Parva, Adhyaya 142, Verse 4

तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम्

याज्ञसेन्याः परामर्शः स च वीर दहत्युत

Mahabharata

Vana Parva, Adhyaya 142, Verse 5

नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम्

अजेयमुग्रधन्वानं तेन तप्ये वृकोदर

Mahabharata

Vana Parva, Adhyaya 142, Verse 6

तीर्थानि चैव रम्याणि वनानि च सरांसि च

चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया

Mahabharata

Vana Parva, Adhyaya 142, Verse 7

पञ्च वर्षाण्यहं वीरं सत्यसंधं धनंजयम्

यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर

Mahabharata

Vana Parva, Adhyaya 142, Verse 8

तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम्

न पश्यामि महाबाहुं तेन तप्ये वृकोदर

Mahabharata

Vana Parva, Adhyaya 142, Verse 9

कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम्

न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर

Mahabharata

Vana Parva, Adhyaya 142, Verse 10

चरन्तमरिसंघेषु कालं क्रुद्धमिवान्तकम्

प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनंजयम्

Mahabharata

Vana Parva, Adhyaya 142, Verse 11

यः स शक्रादनवरो वीर्येण द्रविणेन च

यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः

Mahabharata

Vana Parva, Adhyaya 142, Verse 12

दुःखेन महताविष्टः स्वकृतेनानिवर्तिना

अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम्

Mahabharata

Vana Parva, Adhyaya 142, Verse 13

सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा

ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च

Mahabharata

Vana Parva, Adhyaya 142, Verse 14

स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः

अपि वज्रधरस्यापि भवेत्कालविषोपमः

Mahabharata

Vana Parva, Adhyaya 142, Verse 15

शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान्

दाताभयस्य बीभत्सुरमितात्मा महाबलः

Mahabharata

Vana Parva, Adhyaya 142, Verse 16

सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता

आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः

Mahabharata

Vana Parva, Adhyaya 142, Verse 17

रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम

बहूनि बहुजातानि यानि प्राप्तः सुयोधनः

Mahabharata

Vana Parva, Adhyaya 142, Verse 18

यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम

सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव

Mahabharata

Vana Parva, Adhyaya 142, Verse 19

वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि

अजेयमजितं युद्धे तं न पश्यामि फल्गुनम्

Mahabharata

Vana Parva, Adhyaya 142, Verse 20

संकर्षणं महावीर्यं त्वां च भीमापराजितम्

अनुजातः स वीर्येण वासुदेवं च शत्रुहा

Mahabharata

Vana Parva, Adhyaya 142, Verse 21

यस्य बाहुबले तुल्यः प्रभावे च पुरंदरः

जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः

Mahabharata

Vana Parva, Adhyaya 142, Verse 22

ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः

प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम्

Mahabharata

Vana Parva, Adhyaya 142, Verse 23

विशाला बदरी यत्र नरनारायणाश्रमः

तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम्

Mahabharata

Vana Parva, Adhyaya 142, Verse 24

कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम्

पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः

Mahabharata

Vana Parva, Adhyaya 142, Verse 25

नातप्ततपसा शक्यो देशो गन्तुं वृकोदर

न नृशंसेन लुब्धेन नाप्रशान्तेन भारत

Mahabharata

Vana Parva, Adhyaya 142, Verse 26

तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः

सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः

Mahabharata

Vana Parva, Adhyaya 142, Verse 27

मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान्

प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति

Mahabharata

Vana Parva, Adhyaya 142, Verse 28

ते वयं नियतात्मानः पर्वतं गन्धमादनम्

प्रवेक्ष्यामो मिताहारा धनंजयदिदृक्षवः