Mahabharata

Vana Parva, Adhyaya 141

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 141, Verse 1

अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च

अग्निना तपसा चैव शक्यं गन्तुं वृकोदर

Mahabharata

Vana Parva, Adhyaya 141, Verse 2

संनिवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात्

ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह

Mahabharata

Vana Parva, Adhyaya 141, Verse 3

ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति

बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति

Mahabharata

Vana Parva, Adhyaya 141, Verse 4

अथ वा सहदेवेन धौम्येन च सहाभिभो

सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः

Mahabharata

Vana Parva, Adhyaya 141, Verse 5

रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि

सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण

Mahabharata

Vana Parva, Adhyaya 141, Verse 6

त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः

अहं च नकुलश्चैव लोमशश्च महातपाः

Mahabharata

Vana Parva, Adhyaya 141, Verse 7

ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः

वसेह द्रौपदीं रक्षन्यावदागमनं मम

Mahabharata

Vana Parva, Adhyaya 141, Verse 8

राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत

व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया

Mahabharata

Vana Parva, Adhyaya 141, Verse 9

तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः

किं पुनः सहदेवं च मां च कृष्णां च भारत

Mahabharata

Vana Parva, Adhyaya 141, Verse 10

रथाः कामं निवर्तन्तां सर्वे च परिचारकाः

सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान्

Mahabharata

Vana Parva, Adhyaya 141, Verse 11

न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित्

शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च

Mahabharata

Vana Parva, Adhyaya 141, Verse 12

इयं चापि महाभागा राजपुत्री यतव्रता

त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम्

Mahabharata

Vana Parva, Adhyaya 141, Verse 13

तथैव सहदेवोऽयं सततं त्वामनुव्रतः

न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै

Mahabharata

Vana Parva, Adhyaya 141, Verse 14

अपि चात्र महाराज सव्यसाचिदिदृक्षया

सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह

Mahabharata

Vana Parva, Adhyaya 141, Verse 15

यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः

पद्भिरेव गमिष्यामो मा राजन्विमना भव

Mahabharata

Vana Parva, Adhyaya 141, Verse 16

अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति

इति मे वर्तते बुद्धिर्मा राजन्विमना भव

Mahabharata

Vana Parva, Adhyaya 141, Verse 17

सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ

दुर्गे संतारयिष्यामि यद्यशक्तौ भविष्यतः

Mahabharata

Vana Parva, Adhyaya 141, Verse 18

एवं ते भाषमाणस्य बलं भीमाभिवर्धताम्

यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि

Mahabharata

Vana Parva, Adhyaya 141, Verse 19

यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते

बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम्

Mahabharata

Vana Parva, Adhyaya 141, Verse 20

यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया

मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः

Mahabharata

Vana Parva, Adhyaya 141, Verse 21

ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा

गमिष्यामि न संतापः कार्यो मां प्रति भारत

Mahabharata

Vana Parva, Adhyaya 141, Verse 22

तपसा शक्यते गन्तुं पर्वतो गन्धमादनः

तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम्

Mahabharata

Vana Parva, Adhyaya 141, Verse 23

नकुलः सहदेवश्च भीमसेनश्च पार्थिव

अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम्

Mahabharata

Vana Parva, Adhyaya 141, Verse 24

एवं संभाषमाणास्ते सुबाहोर्विषयं महत्

ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत्

Mahabharata

Vana Parva, Adhyaya 141, Verse 25

किराततङ्गणाकीर्णं कुणिन्दशतसंकुलम्

हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम्

Mahabharata

Vana Parva, Adhyaya 141, Verse 26

सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत

विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम्

Mahabharata

Vana Parva, Adhyaya 141, Verse 27

तत्र ते पूजितास्तेन सर्व एव सुखोषिताः

प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति

Mahabharata

Vana Parva, Adhyaya 141, Verse 28

इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा

सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप

Mahabharata

Vana Parva, Adhyaya 141, Verse 29

राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः

पद्भिरेव महावीर्या ययुः कौरवनन्दनाः

Mahabharata

Vana Parva, Adhyaya 141, Verse 30

ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः

तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनंजयम्