Vana Parva, Adhyaya 140, Verse 1
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव
एषा गङ्गा सप्तविधा राजते भरतर्षभ
स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम्
यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट्
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते
तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते
स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम्
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव
कैलासः पर्वतो राजन्षड्योजनशतान्युत
यत्र देवाः समायान्ति विशाला यत्र भारत
असंख्येयास्तु कौन्तेय यक्षराक्षसकिंनराः
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति
तान्विगाहस्व पार्थाद्य तपसा च दमेन च
रक्ष्यमाणो मया राजन्भीमसेनबलेन च
स्वस्ति ते वरुणो राजा यमश्च समितिंजयः
गङ्गा च यमुना चैव पर्वतश्च दधातु ते
इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणोमि घोषं तव देवि गङ्गे
गोपाययेमं सुभगे गिरिभ्यः; सर्वाजमीढापचितं नरेन्द्रम्
भवस्व शर्म प्रविविक्षतोऽस्य; शैलानिमाञ्शैलसुते नृपस्य
अपूर्वोऽयं संभ्रमो लोमशस्य; कृष्णां सर्वे रक्षत मा प्रमादम्
देशो ह्ययं दुर्गतमो मतोऽस्य; तस्मात्परं शौचमिहाचरध्वम्
ततोऽब्रवीद्भीममुदारवीर्यं; कृष्णां यत्तः पालय भीमसेन
शून्येऽर्जुनेऽसंनिहिते च तात; त्वमेव कृष्णां भजसेऽसुखेषु
ततो महात्मा यमजौ समेत्य; मूर्धन्युपाघ्राय विमृज्य गात्रे
उवाच तौ बाष्पकलं स राजा; मा भैष्टमागच्छतमप्रमत्तौ