Mahabharata

Vana Parva, Adhyaya 139

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 139, Verse 1

एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः

सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान्

Mahabharata

Vana Parva, Adhyaya 139, Verse 2

तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू

वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता

Mahabharata

Vana Parva, Adhyaya 139, Verse 3

तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः

आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः

Mahabharata

Vana Parva, Adhyaya 139, Verse 4

अथावलोककोऽगच्छद्गृहानेकः परावसुः

कृष्णाजिनेन संवीतं ददर्श पितरं वने

Mahabharata

Vana Parva, Adhyaya 139, Verse 5

जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि

चरन्तं गहनेऽरण्ये मेने स पितरं मृगम्

Mahabharata

Vana Parva, Adhyaya 139, Verse 6

मृगं तु मन्यमानेन पिता वै तेन हिंसितः

अकामयानेन तदा शरीरत्राणमिच्छता

Mahabharata

Vana Parva, Adhyaya 139, Verse 7

स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत

पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः

Mahabharata

Vana Parva, Adhyaya 139, Verse 8

इदं कर्म न शक्तस्त्वं वोढुमेकः कथंचन

मया तु हिंसितस्तातो मन्यमानेन तं मृगम्

Mahabharata

Vana Parva, Adhyaya 139, Verse 9

सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम्

समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने

Mahabharata

Vana Parva, Adhyaya 139, Verse 10

करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः

ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः

Mahabharata

Vana Parva, Adhyaya 139, Verse 11

स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर

अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः

Mahabharata

Vana Parva, Adhyaya 139, Verse 12

ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम्

बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम्

Mahabharata

Vana Parva, Adhyaya 139, Verse 13

एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति

ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः

Mahabharata

Vana Parva, Adhyaya 139, Verse 14

प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा

न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 139, Verse 15

उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत

नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम्

मम भ्रात्रा कृतमिदं मया तु परिरक्षितम्

Mahabharata

Vana Parva, Adhyaya 139, Verse 16

प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप

तं ते प्रवरयामासुर्निरासुश्च परावसुम्

Mahabharata

Vana Parva, Adhyaya 139, Verse 17

ततो देवा वरं तस्मै ददुरग्निपुरोगमाः

स चापि वरयामास पितुरुत्थानमात्मनः

Mahabharata

Vana Parva, Adhyaya 139, Verse 18

अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे

भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः

Mahabharata

Vana Parva, Adhyaya 139, Verse 19

ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर

अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान्

Mahabharata

Vana Parva, Adhyaya 139, Verse 20

समधीतं मया ब्रह्म व्रतानि चरितानि च

कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम्

तथायुक्तेन विधिना निहन्तुममरोत्तमाः

Mahabharata

Vana Parva, Adhyaya 139, Verse 21

मैवं कृथा यवक्रीत यथा वदसि वै मुने

ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा

Mahabharata

Vana Parva, Adhyaya 139, Verse 22

अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा

कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम्

Mahabharata

Vana Parva, Adhyaya 139, Verse 23

यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः

संजीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम्

Mahabharata

Vana Parva, Adhyaya 139, Verse 24

आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः

अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे