Vana Parva, Adhyaya 138, Verse 1
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्
समित्कलापमादाय प्रविवेश स्वमाश्रमम्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम्
समित्कलापमादाय प्रविवेश स्वमाश्रमम्
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः
वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत्
किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम्
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः
एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः
रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः
तथा हि निहतः शेते राक्षसेन बलीयसा
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा
अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः
ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम्
संभावितो हि तूर्णेन शूलहस्तेन रक्षसा
भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः
गतासुं पुत्रमादाय विललाप सुदुःखितः
ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः
द्विजानामनधीता वै वेदाः संप्रतिभान्त्विति
तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान्
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात्
गतवानेव तं क्षुद्रं कालान्तकयमोपमम्
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम्
गतवानेव कोपस्य वशं परमदुर्मतिः
पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा
त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि
यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम्
सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते
ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम्
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः
परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया
ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम्
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम्