Mahabharata

Vana Parva, Adhyaya 137

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 137, Verse 1

चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः

जगाम माधवे मासि रैभ्याश्रमपदं प्रति

Mahabharata

Vana Parva, Adhyaya 137, Verse 2

स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते

विचरन्तीं स्नुषां तस्य किंनरीमिव भारत

Mahabharata

Vana Parva, Adhyaya 137, Verse 3

यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति

निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः

Mahabharata

Vana Parva, Adhyaya 137, Verse 4

सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती

तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा

Mahabharata

Vana Parva, Adhyaya 137, Verse 5

तत एकान्तमुन्नीय मज्जयामास भारत

आजगाम तदा रैभ्यः स्वमाश्रममरिंदम

Mahabharata

Vana Parva, Adhyaya 137, Verse 6

रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः

सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 137, Verse 7

सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा

प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना

Mahabharata

Vana Parva, Adhyaya 137, Verse 8

शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम्

दहन्निव तदा चेतः क्रोधः समभवन्महान्

Mahabharata

Vana Parva, Adhyaya 137, Verse 9

स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः

अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते

Mahabharata

Vana Parva, Adhyaya 137, Verse 10

ततः समभवन्नारी तस्या रूपेण संमिता

अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः

Mahabharata

Vana Parva, Adhyaya 137, Verse 11

ततः समभवद्रक्षो घोराक्षं भीमदर्शनम्

अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे

Mahabharata

Vana Parva, Adhyaya 137, Verse 12

तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति

जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया

Mahabharata

Vana Parva, Adhyaya 137, Verse 13

ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना

कमण्डलुं जहारास्य मोहयित्वा तु भारत

Mahabharata

Vana Parva, Adhyaya 137, Verse 14

उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम्

तत उद्यतशूलः स राक्षसः समुपाद्रवत्

Mahabharata

Vana Parva, Adhyaya 137, Verse 15

तमापतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया

यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः

Mahabharata

Vana Parva, Adhyaya 137, Verse 16

जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः

जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः

Mahabharata

Vana Parva, Adhyaya 137, Verse 17

स काल्यमानो घोरेण शूलहस्तेन रक्षसा

अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत्

Mahabharata

Vana Parva, Adhyaya 137, Verse 18

स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा

निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव

Mahabharata

Vana Parva, Adhyaya 137, Verse 19

निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः

ताडयामास शूलेन स भिन्नहृदयोऽपतत्

Mahabharata

Vana Parva, Adhyaya 137, Verse 20

यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत्

अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत्