Mahabharata

Vana Parva, Adhyaya 136

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 136, Verse 1

प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः

अति चान्यान्भविष्यावो वरा लब्धास्तथा मया

Mahabharata

Vana Parva, Adhyaya 136, Verse 2

दर्पस्ते भविता तात वराँल्लब्ध्वा यथेप्सितान्

स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि

Mahabharata

Vana Parva, Adhyaya 136, Verse 3

अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः

ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान्

Mahabharata

Vana Parva, Adhyaya 136, Verse 4

स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम्

भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः

Mahabharata

Vana Parva, Adhyaya 136, Verse 5

तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः

नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति

Mahabharata

Vana Parva, Adhyaya 136, Verse 6

यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः

अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति

Mahabharata

Vana Parva, Adhyaya 136, Verse 7

तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा

स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत

Mahabharata

Vana Parva, Adhyaya 136, Verse 8

विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम्

आससाद महावीर्यं धनुषाक्षं मनीषिणम्

Mahabharata

Vana Parva, Adhyaya 136, Verse 9

तस्यापचक्रे मेधावी तं शशाप स वीर्यवान्

भव भस्मेति चोक्तः स न भस्म समपद्यत

Mahabharata

Vana Parva, Adhyaya 136, Verse 10

धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम्

निमित्तमस्य महिषैर्भेदयामास वीर्यवान्

Mahabharata

Vana Parva, Adhyaya 136, Verse 11

स निमित्ते विनष्टे तु ममार सहसा शिशुः

तं मृतं पुत्रमादाय विललाप ततः पिता

Mahabharata

Vana Parva, Adhyaya 136, Verse 12

लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत्

ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे

Mahabharata

Vana Parva, Adhyaya 136, Verse 13

न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन

महिषैर्भेदयामास धनुषाक्षो महीधरान्

Mahabharata

Vana Parva, Adhyaya 136, Verse 14

एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः

क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान्

Mahabharata

Vana Parva, Adhyaya 136, Verse 15

एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ

तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः

Mahabharata

Vana Parva, Adhyaya 136, Verse 16

स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा

वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः

Mahabharata

Vana Parva, Adhyaya 136, Verse 17

एवं करिष्ये मा तापं तात कार्षीः कथंचन

यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम

Mahabharata

Vana Parva, Adhyaya 136, Verse 18

उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः

विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा