Vana Parva, Adhyaya 134, Verse 1
अत्रोग्रसेनसमितेषु राज;न्समागतेष्वप्रतिमेषु राजसु
न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्रोग्रसेनसमितेषु राज;न्समागतेष्वप्रतिमेषु राजसु
न वै विवित्सान्तरमस्ति वादिनां; महाजले हंसनिनादिनामिव
न मेऽद्य वक्ष्यस्यतिवादिमानि;न्ग्लहं प्रपन्नः सरितामिवागमः
हुताशनस्येव समिद्धतेजसः; स्थिरो भवस्वेह ममाद्य बन्दिन्
व्याघ्रं शयानं प्रति मा प्रबोधय; आशीविषं सृक्किणी लेलिहानम्
पदाहतस्येव शिरोऽभिहत्य; नादष्टो वै मोक्ष्यसे तन्निबोध
यो वै दर्पात्संहननोपपन्नः; सुदुर्बलः पर्वतमाविहन्ति
तस्यैव पाणिः सनखो विशीर्यते; न चैव शैलस्य हि दृश्यते व्रणः
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः
निकृष्टभूता राजानो वत्सा अनदुहो यथा
अष्टावक्रः समितौ गर्जमानो; जातक्रोधो बन्दिनमाह राजन्
उक्ते वाक्ये चोत्तरं मे ब्रवीहि; वाक्यस्य चाप्युत्तरं ते ब्रवीमि
एक एवाग्निर्बहुधा समिध्यते; एकः सूर्यः सर्वमिदं प्रभासते
एको वीरो देवराजो निहन्ता; यमः पितॄणामीश्वरश्चैक एव
द्वाविन्द्राग्नी चरतो वै सखायौ; द्वौ देवर्षी नारदः पर्वतश्च
द्वावश्विनौ द्वे च रथस्य चक्रे; भार्यापती द्वौ विहितौ विधात्रा
त्रिः सूयते कर्मणा वै प्रजेयं; त्रयो युक्ता वाजपेयं वहन्ति
अध्वर्यवस्त्रिषवणानि तन्वते; त्रयो लोकास्त्रीणि ज्योतींषि चाहुः
चतुष्टयं ब्राह्मणानां निकेतं; चत्वारो युक्ता यज्ञमिमं वहन्ति
दिशश्चतस्रश्चतुरश्च वर्णा;श्चतुष्पदा गौरपि शश्वदुक्ता
पञ्चाग्नयः पञ्चपदा च पङ्क्ति;र्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि
दृष्टा वेदे पञ्चचूडाश्च पञ्च; लोके ख्यातं पञ्चनदं च पुण्यम्
षडाधाने दक्षिणामाहुरेके; षडेवेमे ऋतवः कालचक्रम्
षडिन्द्रियाण्युत षट्कृत्तिकाश्च; षट्साद्यस्काः सर्ववेदेषु दृष्टाः
सप्त ग्राम्याः पशवः सप्त वन्याः; सप्त छन्दांसि क्रतुमेकं वहन्ति
सप्तर्षयः सप्त चाप्यर्हणानि; सप्ततन्त्री प्रथिता चैव वीणा
अष्टौ शाणाः शतमानं वहन्ति; तथाष्टपादः शरभः सिंहघाती
अष्टौ वसूञ्शुश्रुम देवतासु; यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः
नवैवोक्ताः सामिधेन्यः पितॄणां; तथा प्राहुर्नवयोगं विसर्गम्
नवाक्षरा बृहती संप्रदिष्टा; नवयोगो गणनामेति शश्वत्
दशा दशोक्ताः पुरुषस्य लोके; सहस्रमाहुर्दश पूर्णं शतानि
दशैव मासान्बिभ्रति गर्भवत्यो; दशेरका दश दाशा दशार्णाः
एकादशैकादशिनः पशूना;मेकादशैवात्र भवन्ति यूपाः
एकादश प्राणभृतां विकारा; एकादशोक्ता दिवि देवेषु रुद्राः
संवत्सरं द्वादश मासमाहु;र्जगत्याः पादो द्वादशैवाक्षराणि
द्वादशाहः प्राकृतो यज्ञ उक्तो; द्वादशादित्यान्कथयन्तीह विप्राः
त्रयोदशी तिथिरुक्ता महोग्रा; त्रयोदशद्वीपवती मही च
एतावदुक्त्वा विरराम बन्दी; श्लोकस्यार्धं व्याजहाराष्टवक्रः
त्रयोदशाहानि ससार केशी; त्रयोदशादीन्यतिच्छन्दांसि चाहुः
ततो महानुदतिष्ठन्निनाद;स्तूष्णींभूतं सूतपुत्रं निशम्य
अधोमुखं ध्यानपरं तदानी;मष्टावक्रं चाप्युदीर्यन्तमेव
तस्मिंस्तथा संकुले वर्तमाने; स्फीते यज्ञे जनकस्याथ राज्ञः
अष्टावक्रं पूजयन्तोऽभ्युपेयु;र्विप्राः सर्वे प्राञ्जलयः प्रतीताः
अनेन वै ब्राह्मणाः शुश्रुवांसो; वादे जित्वा सलिले मज्जिताः किल
तानेव धर्मानयमद्य बन्दी; प्राप्नोतु गृह्याप्सु निमज्जयैनम्
अहं पुत्रो वरुणस्योत राज्ञ;स्तत्रास सत्रं द्वादशवार्षिकं वै
सत्रेण ते जनक तुल्यकालं; तदर्थं ते प्रहिता मे द्विजाग्र्याः
एते सर्वे वरुणस्योत यज्ञं; द्रष्टुं गता इह आयान्ति भूयः
अष्टावक्रं पूजये पूजनीयं; यस्य हेतोर्जनितारं समेष्ये
विप्राः समुद्राम्भसि मज्जितास्ते; वाचा जिता मेधया आविदानाः
तां मेधया वाचमथोज्जहार; यथा वाचमवचिन्वन्ति सन्तः
अग्निर्दहञ्जातवेदाः सतां गृहा;न्विसर्जयंस्तेजसा न स्म धाक्षीत्
बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचमवचिन्वन्ति सन्तः
श्लेष्मातकी क्षीणवर्चाः शृणोषि; उताहो त्वां स्तुतयो मादयन्ति
हस्तीव त्वं जनक वितुद्यमानो; न मामिकां वाचमिमां शृणोषि
शृणोमि वाचं तव दिव्यरूपा;ममानुषीं दिव्यरूपोऽसि साक्षात्
अजैषीर्यद्बन्दिनं त्वं विवादे; निसृष्ट एष तव कामोऽद्य बन्दी
नानेन जीवता कश्चिदर्थो मे बन्दिना नृप
पिता यद्यस्य वरुणो मज्जयैनं जलाशये