Mahabharata

Vana Parva, Adhyaya 133

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 133, Verse 1

अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः

राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः

Mahabharata

Vana Parva, Adhyaya 133, Verse 2

पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व

न पावको विद्यते वै लघीया;निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम्

Mahabharata

Vana Parva, Adhyaya 133, Verse 3

यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम्

आवां प्राप्तावतिथी संप्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम्

Mahabharata

Vana Parva, Adhyaya 133, Verse 4

ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू

न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन

Mahabharata

Vana Parva, Adhyaya 133, Verse 5

बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम्

न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः

Mahabharata

Vana Parva, Adhyaya 133, Verse 6

यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम्

वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः

Mahabharata

Vana Parva, Adhyaya 133, Verse 7

शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम्

न बाल इत्यवमन्तव्यमाहु;र्बालोऽप्यग्निर्दहति स्पृश्यमानः

Mahabharata

Vana Parva, Adhyaya 133, Verse 8

सरस्वतीमीरय वेदजुष्टा;मेकाक्षरां बहुरूपां विराजम्

अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः

Mahabharata

Vana Parva, Adhyaya 133, Verse 9

न ज्ञायते कायवृद्ध्या विवृद्धि;र्यथाष्ठीला शाल्मलेः संप्रवृद्धा

ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः

Mahabharata

Vana Parva, Adhyaya 133, Verse 10

वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः

न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे

Mahabharata

Vana Parva, Adhyaya 133, Verse 11

न तेन स्थविरो भवति येनास्य पलितं शिरः

बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः

Mahabharata

Vana Parva, Adhyaya 133, Verse 12

न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः

ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान्

Mahabharata

Vana Parva, Adhyaya 133, Verse 13

दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि

निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने

Mahabharata

Vana Parva, Adhyaya 133, Verse 14

द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे

उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य

Mahabharata

Vana Parva, Adhyaya 133, Verse 15

कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां संप्रवेश्यम्

उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत्

Mahabharata

Vana Parva, Adhyaya 133, Verse 16

भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम्

त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात्

Mahabharata

Vana Parva, Adhyaya 133, Verse 17

विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः

त्वया निसृष्टैः पुरुषैराप्तकृद्भि;र्जले सर्वान्मज्जयतीति नः श्रुतम्

Mahabharata

Vana Parva, Adhyaya 133, Verse 18

स तच्छ्रुत्वा ब्राह्मणानां सकाशा;द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि

क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि

Mahabharata

Vana Parva, Adhyaya 133, Verse 19

आशंससे बन्दिनं त्वं विजेतु;मविज्ञात्वा वाक्यबलं परस्य

विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः

Mahabharata

Vana Parva, Adhyaya 133, Verse 20

विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः

समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम्

Mahabharata

Vana Parva, Adhyaya 133, Verse 21

षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः

यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः

Mahabharata

Vana Parva, Adhyaya 133, Verse 22

चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि

तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति

Mahabharata

Vana Parva, Adhyaya 133, Verse 23

वडवे इव संयुक्ते श्येनपाते दिवौकसाम्

कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम्

Mahabharata

Vana Parva, Adhyaya 133, Verse 24

मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम्

वातसारथिराधत्ते गर्भं सुषुवतुश्च तम्

Mahabharata

Vana Parva, Adhyaya 133, Verse 25

किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति

कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते

Mahabharata

Vana Parva, Adhyaya 133, Verse 26

मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति

अश्मनो हृदयं नास्ति नदी वेगेन वर्धते

Mahabharata

Vana Parva, Adhyaya 133, Verse 27

न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे

न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी