Mahabharata

Vana Parva, Adhyaya 132

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 132, Verse 1

यः कथ्यते मन्त्रविदग्र्यबुद्धि;रौद्दालकिः श्वेतकेतुः पृथिव्याम्

तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदाफलैरुपपन्नं महीजैः

Mahabharata

Vana Parva, Adhyaya 132, Verse 2

साक्षादत्र श्वेतकेतुर्ददर्श; सरस्वतीं मानुषदेहरूपाम्

वेत्स्यामि वाणीमिति संप्रवृत्तां; सरस्वतीं श्वेतकेतुर्बभाषे

Mahabharata

Vana Parva, Adhyaya 132, Verse 3

तस्मिन्काले ब्रह्मविदां वरिष्ठा;वास्तां तदा मातुलभागिनेयौ

अष्टावक्रश्चैव कहोडसूनु;रौद्दालकिः श्वेतकेतुश्च राजन्

Mahabharata

Vana Parva, Adhyaya 132, Verse 4

विदेहराजस्य महीपतेस्तौ; विप्रावुभौ मातुलभागिनेयौ

प्रविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुरप्रमेयम्

Mahabharata

Vana Parva, Adhyaya 132, Verse 5

कथंप्रभावः स बभूव विप्र;स्तथायुक्तं यो निजग्राह बन्दिम्

अष्टावक्रः केन चासौ बभूव; तत्सर्वं मे लोमश शंस तत्त्वम्

Mahabharata

Vana Parva, Adhyaya 132, Verse 6

उद्दालकस्य नियतः शिष्य एको; नाम्ना कहोडेति बभूव राजन्

शुश्रूषुराचार्यवशानुवर्ती; दीर्घं कालं सोऽध्ययनं चकार

Mahabharata

Vana Parva, Adhyaya 132, Verse 7

तं वै विप्राः पर्यभवंश्च शिष्या;स्तं च ज्ञात्वा विप्रकारं गुरुः सः

तस्मै प्रादात्सद्य एव श्रुतं च; भार्यां च वै दुहितरं स्वां सुजाताम्

Mahabharata

Vana Parva, Adhyaya 132, Verse 8

तस्या गर्भः समभवदग्निकल्पः; सोऽधीयानं पितरमथाभ्युवाच

सर्वां रात्रिमध्ययनं करोषि; नेदं पितः सम्यगिवोपवर्तते

Mahabharata

Vana Parva, Adhyaya 132, Verse 9

उपालब्धः शिष्यमध्ये महर्षिः; स तं कोपादुदरस्थं शशाप

यस्मात्कुक्षौ वर्तमानो ब्रवीषि; तस्माद्वक्रो भवितास्यष्टकृत्वः

Mahabharata

Vana Parva, Adhyaya 132, Verse 10

स वै तथा वक्र एवाभ्यजाय;दष्टावक्रः प्रथितो वै महर्षिः

तस्यासीद्वै मातुलः श्वेतकेतुः; स तेन तुल्यो वयसा बभूव

Mahabharata

Vana Parva, Adhyaya 132, Verse 11

संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ

उवाच भर्तारमिदं रहोगता; प्रसाद्य हीनं वसुना धनार्थिनी

Mahabharata

Vana Parva, Adhyaya 132, Verse 12

कथं करिष्याम्यधना महर्षे; मासश्चायं दशमो वर्तते मे

न चास्ति ते वसु किंचित्प्रजाता; येनाहमेतामापदं निस्तरेयम्

Mahabharata

Vana Parva, Adhyaya 132, Verse 13

उक्तस्त्वेवं भार्यया वै कहोडो; वित्तस्यार्थे जनकमथाभ्यगच्छत्

स वै तदा वादविदा निगृह्य; निमज्जितो बन्दिनेहाप्सु विप्रः

Mahabharata

Vana Parva, Adhyaya 132, Verse 14

उद्दालकस्तं तु तदा निशम्य; सूतेन वादेऽप्सु तथा निमज्जितम्

उवाच तां तत्र ततः सुजाता;मष्टावक्रे गूहितव्योऽयमर्थः

Mahabharata

Vana Parva, Adhyaya 132, Verse 15

ररक्ष सा चाप्यति तं सुमन्त्रं; जातोऽप्येवं न स शुश्राव विप्रः

उद्दालकं पितृवच्चापि मेने; अष्टावक्रो भ्रातृवच्छ्वेतकेतुम्

Mahabharata

Vana Parva, Adhyaya 132, Verse 16

ततो वर्षे द्वादशे श्वेतकेतु;रष्टावक्रं पितुरङ्के निषण्णम्

अपाकर्षद्गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुरित्युक्तवांश्च

Mahabharata

Vana Parva, Adhyaya 132, Verse 17

यत्तेनोक्तं दुरुक्तं तत्तदानीं; हृदि स्थितं तस्य सुदुःखमासीत्

गृहं गत्वा मातरं रोदमानः; पप्रच्छेदं क्व नु तातो ममेति

Mahabharata

Vana Parva, Adhyaya 132, Verse 18

ततः सुजाता परमार्तरूपा; शापाद्भीता सर्वमेवाचचक्षे

तद्वै तत्त्वं सर्वमाज्ञाय मातु;रित्यब्रवीच्छ्वेतकेतुं स विप्रः

Mahabharata

Vana Parva, Adhyaya 132, Verse 19

गच्छाव यज्ञं जनकस्य राज्ञो; बह्वाश्चर्यः श्रूयते तस्य यज्ञः

श्रोष्यावोऽत्र ब्राह्मणानां विवाद;मन्नं चाग्र्यं तत्र भोक्ष्यावहे च

विचक्षणत्वं च भविष्यते नौ; शिवश्च सौम्यश्च हि ब्रह्मघोषः

Mahabharata

Vana Parva, Adhyaya 132, Verse 20

तौ जग्मतुर्मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः

अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणो वाक्यमिदं जगाद