Vana Parva, Adhyaya 131, Verse 1
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा
मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि
संत्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज
मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः
एवमभ्यागतस्येह कपोतस्याभयार्थिनः
अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि
प्रस्पन्दमानः संभ्रान्तः कपोतः श्येन लक्ष्यते
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः
आहारात्सर्वभूतानि संभवन्ति महीपते
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम्
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते
विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम्
प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति
रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि
धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत्
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम
विरोधिषु महीपाल निश्चित्य गुरुलाघवम्
न बाधा विद्यते यत्र तं धर्मं समुदाचरेत्
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम्
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम
सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम्
तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे
न तेऽस्त्यविदितं किंचिदिति त्वा लक्षयाम्यहम्
शरणैषिणः परित्यागं कथं साध्विति मन्यसे
आहारार्थं समारम्भस्तव चायं विहंगम
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा
त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा
भक्षयामि महाराज किमन्नाद्येन तेन मे
यस्तु मे दैवविहितो भक्षः क्षत्रियपुंगव
तमुत्सृज महीपाल कपोतमिममेव मे
श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी
मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह
राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित
यद्वा कामयसे किंचिच्छ्येन सर्वं ददानि ते
विनेमं पक्षिणं श्येन शरणार्थिनमागतम्
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम्
उशीनर कपोते ते यदि स्नेहो नराधिप
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम्
यदा समं कपोतेन तव मांसं भवेन्नृप
तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम्
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित्
तुलयामास कौन्तेय कपोतेन सहाभिभो
ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः
न विद्यते यदा मांसं कपोतेन समं धृतम्
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम्
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम्
जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते
एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः