Mahabharata

Vana Parva, Adhyaya 130

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 130, Verse 1

इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत

मर्तुकामा नरा राजन्निहायान्ति सहस्रशः

Mahabharata

Vana Parva, Adhyaya 130, Verse 2

एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा

इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः

Mahabharata

Vana Parva, Adhyaya 130, Verse 3

एषा सरस्वती पुण्या दिव्या चोघवती नदी

एतद्विनशनं नाम सरस्वत्या विशां पते

Mahabharata

Vana Parva, Adhyaya 130, Verse 4

द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती

प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः

Mahabharata

Vana Parva, Adhyaya 130, Verse 5

एष वै चमसोद्भेदो यत्र दृश्या सरस्वती

यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः

Mahabharata

Vana Parva, Adhyaya 130, Verse 6

एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम

लोपामुद्रा समागम्य भर्तारमवृणीत वै

Mahabharata

Vana Parva, Adhyaya 130, Verse 7

एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते

इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम्

Mahabharata

Vana Parva, Adhyaya 130, Verse 8

एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम्

एषा रम्या विपाशा च नदी परमपावनी

Mahabharata

Vana Parva, Adhyaya 130, Verse 9

अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः

बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः

Mahabharata

Vana Parva, Adhyaya 130, Verse 10

काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम

महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह

Mahabharata

Vana Parva, Adhyaya 130, Verse 11

अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च

अग्नेश्चात्रैव संवादः काश्यपस्य च भारत

Mahabharata

Vana Parva, Adhyaya 130, Verse 12

एतद्द्वारं महाराज मानसस्य प्रकाशते

वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम्

Mahabharata

Vana Parva, Adhyaya 130, Verse 13

एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः

नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः

Mahabharata

Vana Parva, Adhyaya 130, Verse 14

एष उज्जानको नाम यवक्रीर्यत्र शान्तवान्

अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः

Mahabharata

Vana Parva, Adhyaya 130, Verse 15

ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम्

आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना

Mahabharata

Vana Parva, Adhyaya 130, Verse 16

समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया

तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम्

Mahabharata

Vana Parva, Adhyaya 130, Verse 17

जलां चोपजलां चैव यमुनामभितो नदीम्

उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत

Mahabharata

Vana Parva, Adhyaya 130, Verse 18

तां देवसमितिं तस्य वासवश्च विशां पते

अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत

Mahabharata

Vana Parva, Adhyaya 130, Verse 19

जिज्ञासमानौ वरदौ महात्मानमुशीनरम्

इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः

Mahabharata

Vana Parva, Adhyaya 130, Verse 20

ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात्

शरणार्थी तदा राजन्निलिल्ये भयपीडितः