Mahabharata

Vana Parva, Adhyaya 129

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 129, Verse 1

अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः

सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम्

Mahabharata

Vana Parva, Adhyaya 129, Verse 2

अम्बरीषश्च नाभाग इष्टवान्यमुनामनु

यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः

Mahabharata

Vana Parva, Adhyaya 129, Verse 3

देशो नाहुषयज्ञानामयं पुण्यतमो नृप

यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान्

Mahabharata

Vana Parva, Adhyaya 129, Verse 4

सार्वभौमस्य कौन्तेय ययातेरमितौजसः

स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह

Mahabharata

Vana Parva, Adhyaya 129, Verse 5

पश्य नानाविधाकारैरग्निभिर्निचितां महीम्

मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः

Mahabharata

Vana Parva, Adhyaya 129, Verse 6

एषा शम्येकपत्रा सा शरकं चैतदुत्तमम्

पश्य रामह्रदानेतान्पश्य नारायणाश्रमम्

Mahabharata

Vana Parva, Adhyaya 129, Verse 7

एतदार्चीकपुत्रस्य योगैर्विचरतो महीम्

अपसर्पणं महीपाल रौप्यायाममितौजसः

Mahabharata

Vana Parva, Adhyaya 129, Verse 8

अत्रानुवंशं पठतः शृणु मे कुरुनन्दन

उलूखलैराभरणैः पिशाची यदभाषत

Mahabharata

Vana Parva, Adhyaya 129, Verse 9

युगंधरे दधि प्राश्य उषित्वा चाच्युतस्थले

तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि

Mahabharata

Vana Parva, Adhyaya 129, Verse 10

एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि

एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा

Mahabharata

Vana Parva, Adhyaya 129, Verse 11

अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम

द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत

Mahabharata

Vana Parva, Adhyaya 129, Verse 12

अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान्

ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात्

Mahabharata

Vana Parva, Adhyaya 129, Verse 13

एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते

एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः

Mahabharata

Vana Parva, Adhyaya 129, Verse 14

अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः

यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम्

Mahabharata

Vana Parva, Adhyaya 129, Verse 15

अत्रैव भरतो राजा मेध्यमश्वमवासृजत्

असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम्

Mahabharata

Vana Parva, Adhyaya 129, Verse 16

अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्

आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः

Mahabharata

Vana Parva, Adhyaya 129, Verse 17

अत्रोपस्पृश्य राजेन्द्र सर्वाँल्लोकान्प्रपश्यति

पूयते दुष्कृताच्चैव समुपस्पृश्य भारत

Mahabharata

Vana Parva, Adhyaya 129, Verse 18

तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः

लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत्

Mahabharata

Vana Parva, Adhyaya 129, Verse 19

सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम

इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम्

Mahabharata

Vana Parva, Adhyaya 129, Verse 20

एवमेतन्महाबाहो पश्यन्ति परमर्षयः

सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम्

Mahabharata

Vana Parva, Adhyaya 129, Verse 21

यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति

इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः

ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च

Mahabharata

Vana Parva, Adhyaya 129, Verse 22

वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना

कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः