Mahabharata

Vana Parva, Adhyaya 128

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 128, Verse 1

ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा

पुत्रकामतया सर्वं करिष्यामि वचस्तव

Mahabharata

Vana Parva, Adhyaya 128, Verse 2

ततः स याजयामास सोमकं तेन जन्तुना

मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः

Mahabharata

Vana Parva, Adhyaya 128, Verse 3

हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः

तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे

सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति

Mahabharata

Vana Parva, Adhyaya 128, Verse 4

कुररीणामिवार्तानामपाकृष्य तु तं सुतम्

विशस्य चैनं विधिना वपामस्य जुहाव सः

Mahabharata

Vana Parva, Adhyaya 128, Verse 5

वपायां हूयमानायां गन्धमाघ्राय मातरः

आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन

सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः

Mahabharata

Vana Parva, Adhyaya 128, Verse 6

ततो दशसु मासेषु सोमकस्य विशां पते

जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत

Mahabharata

Vana Parva, Adhyaya 128, Verse 7

जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत

स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः

Mahabharata

Vana Parva, Adhyaya 128, Verse 8

तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे

तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः

Mahabharata

Vana Parva, Adhyaya 128, Verse 9

ततः स लोकमगमत्सोमकस्य गुरुः परम्

अथ काले व्यतीते तु सोमकोऽप्यगमत्परम्

Mahabharata

Vana Parva, Adhyaya 128, Verse 10

अथ तं नरके घोरे पच्यमानं ददर्श सः

तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज

Mahabharata

Vana Parva, Adhyaya 128, Verse 11

तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम्

त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम्

Mahabharata

Vana Parva, Adhyaya 128, Verse 12

एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत्

अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः

मत्कृते हि महाभागः पच्यते नरकाग्निना

Mahabharata

Vana Parva, Adhyaya 128, Verse 13

नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन

इमानि तव दृश्यन्ते फलानि ददतां वर

Mahabharata

Vana Parva, Adhyaya 128, Verse 14

पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम्

इच्छाम्यहमनेनैव सह वस्तुं सुरालये

Mahabharata

Vana Parva, Adhyaya 128, Verse 15

नरके वा धर्मराज कर्मणास्य समो ह्यहम्

पुण्यापुण्यफलं देव सममस्त्वावयोरिदम्

Mahabharata

Vana Parva, Adhyaya 128, Verse 16

यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम्

तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम्

Mahabharata

Vana Parva, Adhyaya 128, Verse 17

स चकार तथा सर्वं राजा राजीवलोचनः

पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान्

सह तेनैव विप्रेण गुरुणा स गुरुप्रियः

Mahabharata

Vana Parva, Adhyaya 128, Verse 18

एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते

क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः

Mahabharata

Vana Parva, Adhyaya 128, Verse 19

एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः

षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह