Mahabharata

Vana Parva, Adhyaya 127

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 127, Verse 1

कथंवीर्यः स राजाभूत्सोमको वदतां वर

कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः

Mahabharata

Vana Parva, Adhyaya 127, Verse 2

युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः

तस्य भार्याशतं राजन्सदृशीनामभूत्तदा

Mahabharata

Vana Parva, Adhyaya 127, Verse 3

स वै यत्नेन महता तासु पुत्रं महीपतिः

कंचिन्नासादयामास कालेन महता अपि

Mahabharata

Vana Parva, Adhyaya 127, Verse 4

कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः

जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत

Mahabharata

Vana Parva, Adhyaya 127, Verse 5

तं जातं मातरः सर्वाः परिवार्य समासते

सततं पृष्ठतः कृत्वा कामभोगान्विशां पते

Mahabharata

Vana Parva, Adhyaya 127, Verse 6

ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि

स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः

Mahabharata

Vana Parva, Adhyaya 127, Verse 7

ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः

परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत्

Mahabharata

Vana Parva, Adhyaya 127, Verse 8

तमार्तनादं सहसा शुश्राव स महीपतिः

अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः

Mahabharata

Vana Parva, Adhyaya 127, Verse 9

ततः प्रस्थापयामास किमेतदिति पार्थिवः

तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति

Mahabharata

Vana Parva, Adhyaya 127, Verse 10

त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः

प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिंदमः

Mahabharata

Vana Parva, Adhyaya 127, Verse 11

सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः

ऋत्विजैः सहितो राजन्सहामात्य उपाविशत्

Mahabharata

Vana Parva, Adhyaya 127, Verse 12

धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत्

नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता

Mahabharata

Vana Parva, Adhyaya 127, Verse 13

इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो

पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा

Mahabharata

Vana Parva, Adhyaya 127, Verse 14

एकः कथंचिदुत्पन्नः पुत्रो जन्तुरयं मम

यतमानस्य सर्वासु किं नु दुःखमतः परम्

Mahabharata

Vana Parva, Adhyaya 127, Verse 15

वयश्च समतीतं मे सभार्यस्य द्विजोत्तम

आसां प्राणाः समायत्ता मम चात्रैकपुत्रके

Mahabharata

Vana Parva, Adhyaya 127, Verse 16

स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत्

महता लघुना वापि कर्मणा दुष्करेण वा

Mahabharata

Vana Parva, Adhyaya 127, Verse 17

अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत्

यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक

Mahabharata

Vana Parva, Adhyaya 127, Verse 18

कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत्

कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे

Mahabharata

Vana Parva, Adhyaya 127, Verse 19

यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ

ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते

Mahabharata

Vana Parva, Adhyaya 127, Verse 20

वपायां हूयमानायां धूममाघ्राय मातरः

ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान्

Mahabharata

Vana Parva, Adhyaya 127, Verse 21

तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः

उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति