Vana Parva, Adhyaya 126, Verse 1
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः
कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः
कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः
जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम्
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः
यथा मान्धातृशब्दो वै लोकेषु परिगीयते
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः
सोऽयजत्पृथिवीपाल क्रतुभिर्भूरिदक्षिणैः
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः
अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः
अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः
मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात्
संभृतो मन्त्रपूतेन वारिणा कलशो महान्
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम्
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः
रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान्
शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः
तं प्रविश्याश्रमं श्रान्तः पानीयं सोऽभ्ययाचत
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम्
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः
अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत्
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा
ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः
निस्तोयं तं च कलशं ददृशुः सर्व एव ते
कस्य कर्मेदमिति च पर्यपृच्छन्समागताः
युवनाश्वो मयेत्येव सत्यं समभिपद्यत
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा
सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम्
पुत्रार्थं तव राजर्षे महाबलपराक्रम
महाबलो महावीर्यस्तपोबलसमन्वितः
यः शक्रमपि वीर्येण गमयेद्यमसादनम्
अनेन विधिना राजन्मयैतदुपपादितम्
अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः
आपस्त्वया महाराज मत्तपोवीर्यसंभृताः
ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम्
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान्
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः
निश्चक्राम महातेजा न च तं मृत्युराविशत्
युवनाश्वं नरपतिं तदद्भुतमिवाभवत्
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत्
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे
मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा
मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा
अवर्धत महीपाल किष्कूणां च त्रयोदश
वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम्
उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः