Mahabharata

Vana Parva, Adhyaya 125

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 125, Verse 1

तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः

आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम्

Mahabharata

Vana Parva, Adhyaya 125, Verse 2

भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः

ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः

Mahabharata

Vana Parva, Adhyaya 125, Verse 3

सोमार्हावश्विनावेतावद्य प्रभृति भार्गव

भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते

Mahabharata

Vana Parva, Adhyaya 125, Verse 4

न ते मिथ्या समारम्भो भवत्वेष परो विधिः

जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि

Mahabharata

Vana Parva, Adhyaya 125, Verse 5

सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया

भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव

Mahabharata

Vana Parva, Adhyaya 125, Verse 6

सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति

अतो मयैतद्विहितं तव वीर्यप्रकाशनम्

तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि

Mahabharata

Vana Parva, Adhyaya 125, Verse 7

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः

स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरंदरम्

Mahabharata

Vana Parva, Adhyaya 125, Verse 8

मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान्

अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः

Mahabharata

Vana Parva, Adhyaya 125, Verse 9

तथा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना

अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम्

Mahabharata

Vana Parva, Adhyaya 125, Verse 10

विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः

सुकन्यया सहारण्ये विजहारानुरक्तया

Mahabharata

Vana Parva, Adhyaya 125, Verse 11

तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते

अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय

Mahabharata

Vana Parva, Adhyaya 125, Verse 12

एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत

सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम्

पुष्करेषु महाराज सर्वेषु च जलं स्पृश

Mahabharata

Vana Parva, Adhyaya 125, Verse 13

आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम्

सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम्

चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 125, Verse 14

एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते

वैखानसाश्च ऋषयो वालखिल्यास्तथैव च

Mahabharata

Vana Parva, Adhyaya 125, Verse 15

शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च

सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश

Mahabharata

Vana Parva, Adhyaya 125, Verse 16

शंतनुश्चात्र कौन्तेय शुनकश्च नराधिप

नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम्

Mahabharata

Vana Parva, Adhyaya 125, Verse 17

इह नित्यशया देवाः पितरश्च महर्षिभिः

आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 125, Verse 18

इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते

यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः

Mahabharata

Vana Parva, Adhyaya 125, Verse 19

यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन

सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः

Mahabharata

Vana Parva, Adhyaya 125, Verse 20

एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप

यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः

Mahabharata

Vana Parva, Adhyaya 125, Verse 21

इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः

मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः

Mahabharata

Vana Parva, Adhyaya 125, Verse 22

एषा सा यमुना राजन्राजर्षिगणसेविता

नानायज्ञचिता राजन्पुण्या पापभयापहा

Mahabharata

Vana Parva, Adhyaya 125, Verse 23

अत्र राजा महेष्वासो मान्धातायजत स्वयम्

सहदेवश्च कौन्तेय सोमको ददतां वरः