Vana Parva, Adhyaya 124, Verse 1
ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम्
संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम्
संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम्
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव
रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः
उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन्
याजयिष्यामि राजंस्त्वां संभारानुपकल्पय
ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत्
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत्
कारयामास शर्यातिर्यज्ञायतनमुत्तमम्
तत्रैनं च्यवनो राजन्याजयामास भार्गवः
अद्भुतानि च तत्रासन्यानि तानि निबोध मे
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा
तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम्
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः
भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ
यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम्
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम्
अश्विनावपि देवेन्द्र देवौ विद्धि पुरंदर
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः
एतदेव यदा वाक्यमाम्रेडयति वासवः
अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत्
आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम्
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम्
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम्
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः
संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम्
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः
ततः कृत्या समभवदृषेस्तस्य तपोबलात्
मदो नाम महावीर्यो बृहत्कायो महासुरः
शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः
तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत्
हनुरेका स्थिता तस्य भूमावेका दिवं गता
चतस्र आयता दंष्ट्रा योजनानां शतं शतम्
इतरे त्वस्य दशना बभूवुर्दशयोजनाः
प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः
बाहू पर्वतसंकाशावायतावयुतं समौ
नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसंनिभम्
लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात्
स भक्षयिष्यन्संक्रुद्धः शतक्रतुमुपाद्रवत्
महता घोररूपेण लोकाञ्शब्देन नादयन्