Mahabharata

Vana Parva, Adhyaya 123

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 123, Verse 1

कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप

कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्

Mahabharata

Vana Parva, Adhyaya 123, Verse 2

तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव

ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम्

Mahabharata

Vana Parva, Adhyaya 123, Verse 3

कस्य त्वमसि वामोरु किं वने वै करोषि च

इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने

Mahabharata

Vana Parva, Adhyaya 123, Verse 4

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ

शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम्

Mahabharata

Vana Parva, Adhyaya 123, Verse 5

अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु

कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने

Mahabharata

Vana Parva, Adhyaya 123, Verse 6

भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा

न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि

Mahabharata

Vana Parva, Adhyaya 123, Verse 7

सर्वाभरणसंपन्ना परमाम्बरधारिणी

शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी

Mahabharata

Vana Parva, Adhyaya 123, Verse 8

कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम्

त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम्

Mahabharata

Vana Parva, Adhyaya 123, Verse 9

असमर्थं परित्राणे पोषणे च शुचिस्मिते

साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः

Mahabharata

Vana Parva, Adhyaya 123, Verse 10

एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत्

रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः

Mahabharata

Vana Parva, Adhyaya 123, Verse 11

तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ

युवानं रूपसंपन्नं करिष्यावः पतिं तव

Mahabharata

Vana Parva, Adhyaya 123, Verse 12

ततस्तस्यावयोश्चैव पतिमेकतमं वृणु

एतेन समयेनैनमामन्त्रय वरानने

Mahabharata

Vana Parva, Adhyaya 123, Verse 13

सा तयोर्वचनाद्राजन्नुपसंगम्य भार्गवम्

उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति

Mahabharata

Vana Parva, Adhyaya 123, Verse 14

तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति

भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत्

Mahabharata

Vana Parva, Adhyaya 123, Verse 15

श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः

Mahabharata

Vana Parva, Adhyaya 123, Verse 16

ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह

अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो

Mahabharata

Vana Parva, Adhyaya 123, Verse 17

ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः

दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः

तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः

Mahabharata

Vana Parva, Adhyaya 123, Verse 18

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे

अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि

यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने

Mahabharata

Vana Parva, Adhyaya 123, Verse 19

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान्

निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम्

Mahabharata

Vana Parva, Adhyaya 123, Verse 20

लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम्

हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः

Mahabharata

Vana Parva, Adhyaya 123, Verse 21

यथाहं रूपसंपन्नो वयसा च समन्वितः

कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम्

Mahabharata

Vana Parva, Adhyaya 123, Verse 22

तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ

मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम्

Mahabharata

Vana Parva, Adhyaya 123, Verse 23

तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः

च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः