Mahabharata

Vana Parva, Adhyaya 121

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 121, Verse 1

नृगेण यजमानेन सोमेनेह पुरंदरः

तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात्

Mahabharata

Vana Parva, Adhyaya 121, Verse 2

इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च

इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः

Mahabharata

Vana Parva, Adhyaya 121, Verse 3

आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम्

तर्पयामास सोमेन हयमेधेषु सप्तसु

Mahabharata

Vana Parva, Adhyaya 121, Verse 4

तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम्

वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे

Mahabharata

Vana Parva, Adhyaya 121, Verse 5

तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः

सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः

Mahabharata

Vana Parva, Adhyaya 121, Verse 6

तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान्

स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर

Mahabharata

Vana Parva, Adhyaya 121, Verse 7

तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः

Mahabharata

Vana Parva, Adhyaya 121, Verse 8

सिकता वा यथा लोके यथा वा दिवि तारकाः

यथा वा वर्षतो धारा असंख्येयाश्च केनचित्

Mahabharata

Vana Parva, Adhyaya 121, Verse 9

तथैव तदसंख्येयं धनं यत्प्रददौ गयः

सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु

Mahabharata

Vana Parva, Adhyaya 121, Verse 10

भवेत्संख्येयमेतद्वै यदेतत्परिकीर्तितम्

न सा शक्या तु संख्यातुं दक्षिणा दक्षिणावतः

Mahabharata

Vana Parva, Adhyaya 121, Verse 11

हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा

ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान्

Mahabharata

Vana Parva, Adhyaya 121, Verse 12

अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः

गयस्य यजमानस्य तत्र तत्र विशां पते

Mahabharata

Vana Parva, Adhyaya 121, Verse 13

स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत

सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत्

Mahabharata

Vana Parva, Adhyaya 121, Verse 14

तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ

उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि

Mahabharata

Vana Parva, Adhyaya 121, Verse 15

स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह

वैडूर्यपर्वतं चैव नर्मदां च महानदीम्

समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः

Mahabharata

Vana Parva, Adhyaya 121, Verse 16

ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः

तीर्थानि रमणीयानि तत्र तत्र विशां पते

Mahabharata

Vana Parva, Adhyaya 121, Verse 17

यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह

ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः

Mahabharata

Vana Parva, Adhyaya 121, Verse 18

देवानामेति कौन्तेय तथा राज्ञां सलोकताम्

वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च

Mahabharata

Vana Parva, Adhyaya 121, Verse 19

संधिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च

एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते

Mahabharata

Vana Parva, Adhyaya 121, Verse 20

एष शर्यातियज्ञस्य देशस्तात प्रकाशते

साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः

Mahabharata

Vana Parva, Adhyaya 121, Verse 21

चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः

संस्तम्भयामास च तं वासवं च्यवनः प्रभुः

सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान्

Mahabharata

Vana Parva, Adhyaya 121, Verse 22

कथं विष्टम्भितस्तेन भगवान्पाकशासनः

किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः

Mahabharata

Vana Parva, Adhyaya 121, Verse 23

नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ

एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम