Mahabharata

Vana Parva, Adhyaya 119

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 119, Verse 1

प्रभासतीर्थं संप्राप्य वृष्णयः पाण्डवास्तथा

किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन

Mahabharata

Vana Parva, Adhyaya 119, Verse 2

ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः

वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम्

Mahabharata

Vana Parva, Adhyaya 119, Verse 3

प्रभासतीर्थं संप्राप्य पुण्यं तीर्थं महोदधेः

वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे

Mahabharata

Vana Parva, Adhyaya 119, Verse 4

ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः

वनमाली हली रामो बभाषे पुष्करेक्षणम्

Mahabharata

Vana Parva, Adhyaya 119, Verse 5

न कृष्ण धर्मश्चरितो भवाय; जन्तोरधर्मश्च पराभवाय

युधिष्ठिरो यत्र जटी महात्मा; वनाश्रयः क्लिश्यति चीरवासाः

Mahabharata

Vana Parva, Adhyaya 119, Verse 6

दुर्योधनश्चापि महीं प्रशास्ति; न चास्य भूमिर्विवरं ददाति

धर्मादधर्मश्चरितो गरीया;नितीव मन्येत नरोऽल्पबुद्धिः

Mahabharata

Vana Parva, Adhyaya 119, Verse 7

दुर्योधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये

किं न्वद्य कर्तव्यमिति प्रजाभिः; शङ्का मिथः संजनिता नराणाम्

Mahabharata

Vana Parva, Adhyaya 119, Verse 8

अयं हि धर्मप्रभवो नरेन्द्रो; धर्मे रतः सत्यधृतिः प्रदाता

चलेद्धि राज्याच्च सुखाच्च पार्थो; धर्मादपेतश्च कथं विवर्धेत्

Mahabharata

Vana Parva, Adhyaya 119, Verse 9

कथं नु भीष्मश्च कृपश्च विप्रो; द्रोणश्च राजा च कुलस्य वृद्धः

प्रव्राज्य पार्थान्सुखमाप्नुवन्ति; धिक्पापबुद्धीन्भरतप्रधानान्

Mahabharata

Vana Parva, Adhyaya 119, Verse 10

किं नाम वक्ष्यत्यवनिप्रधानः; पितॄन्समागम्य परत्र पापः

पुत्रेषु सम्यक्चरितं मयेति; पुत्रानपापानवरोप्य राज्यात्

Mahabharata

Vana Parva, Adhyaya 119, Verse 11

नासौ धिया संप्रतिपश्यति स्म; किं नाम कृत्वाहमचक्षुरेवम्

जातः पृथिव्यामिति पार्थिवेषु; प्रव्राज्य कौन्तेयमथापि राज्यात्

Mahabharata

Vana Parva, Adhyaya 119, Verse 12

नूनं समृद्धान्पितृलोकभूमौ; चामीकराभान्क्षितिजान्प्रफुल्लान्

विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति स्म

Mahabharata

Vana Parva, Adhyaya 119, Verse 13

व्यूढोत्तरांसान्पृथुलोहिताक्षा;न्नेमान्स्म पृच्छन्स शृणोति नूनम्

प्रस्थापयद्यत्स वनं ह्यशङ्को; युधिष्ठिरं सानुजमात्तशस्त्रम्

Mahabharata

Vana Parva, Adhyaya 119, Verse 14

योऽयं परेषां पृतनां समृद्धां; निरायुधो दीर्घभुजो निहन्यात्

श्रुत्वैव शब्दं हि वृकोदरस्य; मुञ्चन्ति सैन्यानि शकृत्समूत्रम्

Mahabharata

Vana Parva, Adhyaya 119, Verse 15

स क्षुत्पिपासाध्वकृशस्तरस्वी; समेत्य नानायुधबाणपाणिः

वने स्मरन्वासमिमं सुघोरं; शेषं न कुर्यादिति निश्चितं मे

Mahabharata

Vana Parva, Adhyaya 119, Verse 16

न ह्यस्य वीर्येण बलेन कश्चि;त्समः पृथिव्यां भविता नरेषु

शीतोष्णवातातपकर्शिताङ्गो; न शेषमाजावसुहृत्सु कुर्यात्

Mahabharata

Vana Parva, Adhyaya 119, Verse 17

प्राच्यां नृपानेकरथेन जित्वा; वृकोदरः सानुचरान्रणेषु

स्वस्त्यागमद्योऽतिरथस्तरस्वी; सोऽयं वने क्लिश्यति चीरवासाः

Mahabharata

Vana Parva, Adhyaya 119, Verse 18

यो दन्तकूरे व्यजयन्नृदेवा;न्समागतान्दाक्षिणात्यान्महीपान्

तं पश्यतेमं सहदेवमद्य; तपस्विनं तापसवेषरूपम्

Mahabharata

Vana Parva, Adhyaya 119, Verse 19

यः पार्थिवानेकरथेन वीरो; दिशं प्रतीचीं प्रति युद्धशौण्डः

सोऽयं वने मूलफलेन जीव;ञ्जटी चरत्यद्य मलाचिताङ्गः

Mahabharata

Vana Parva, Adhyaya 119, Verse 20

सत्रे समृद्धेऽति रथस्य राज्ञो; वेदीतलादुत्पतिता सुता या

सेयं वने वासमिमं सुदुःखं; कथं सहत्यद्य सती सुखार्हा

Mahabharata

Vana Parva, Adhyaya 119, Verse 21

त्रिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्यथ वाश्विनोश्च

एषां सुराणां तनयाः कथं नु; वने चरन्त्यल्पसुखाः सुखार्हाः

Mahabharata

Vana Parva, Adhyaya 119, Verse 22

जिते हि धर्मस्य सुते सभार्ये; सभ्रातृके सानुचरे निरस्ते

दुर्योधने चापि विवर्धमाने; कथं न सीदत्यवनिः सशैला