Mahabharata

Vana Parva, Adhyaya 118

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Vana Parva, Adhyaya 118, Verse 1

गच्छन्स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा

सर्वाणि विप्रैरुपशोभितानि; क्वचित्क्वचिद्भारत सागरस्य

Mahabharata

Vana Parva, Adhyaya 118, Verse 2

स वृत्तवांस्तेषु कृताभिषेकः; सहानुजः पार्थिवपुत्रपौत्रः

समुद्रगां पुण्यतमां प्रशस्तां; जगाम पारिक्षित पाण्डुपुत्रः

Mahabharata

Vana Parva, Adhyaya 118, Verse 3

तत्रापि चाप्लुत्य महानुभावः; संतर्पयामास पितॄन्सुरांश्च

द्विजातिमुख्येषु धनं विसृज्य; गोदावरीं सागरगामगच्छत्

Mahabharata

Vana Parva, Adhyaya 118, Verse 4

ततो विपाप्मा द्रविडेषु राज;न्समुद्रमासाद्य च लोकपुण्यम्

अगस्त्यतीर्थं च पवित्रपुण्यं; नारीतीर्थान्यथ वीरो ददर्श

Mahabharata

Vana Parva, Adhyaya 118, Verse 5

तत्रार्जुनस्याग्र्यधनुर्धरस्य; निशम्य तत्कर्म परैरसह्यम्

संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे

Mahabharata

Vana Parva, Adhyaya 118, Verse 6

स तेषु तीर्थेष्वभिषिक्तगात्रः; कृष्णासहायः सहितोऽनुजैश्च

संपूजयन्विक्रममर्जुनस्य; रेमे महीपालपतिः पृथिव्याम्

Mahabharata

Vana Parva, Adhyaya 118, Verse 7

ततः सहस्राणि गवां प्रदाय; तीर्थेषु तेष्वम्बुधरोत्तमस्य

हृष्टः सह भ्रातृभिरर्जुनस्य; संकीर्तयामास गवां प्रदानम्

Mahabharata

Vana Parva, Adhyaya 118, Verse 8

स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन्

क्रमेण गच्छन्परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श

Mahabharata

Vana Parva, Adhyaya 118, Verse 9

तत्रोदधेः कंचिदतीत्य देशं; ख्यातं पृथिव्यां वनमाससाद

तप्तं सुरैर्यत्र तपः पुरस्ता;दिष्टं तथा पुण्यतमैर्नरेन्द्रैः

Mahabharata

Vana Parva, Adhyaya 118, Verse 10

स तत्र तामग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः

ऋचीकपुत्रस्य तपस्विसंघैः; समावृतां पुण्यकृदर्चनीयाम्

Mahabharata

Vana Parva, Adhyaya 118, Verse 11

ततो वसूनां वसुधाधिपः स; मरुद्गणानां च तथाश्विनोश्च

वैवस्वतादित्यधनेश्वराणा;मिन्द्रस्य विष्णोः सवितुर्विभोश्च

Mahabharata

Vana Parva, Adhyaya 118, Verse 12

भगस्य चन्द्रस्य दिवाकरस्य; पतेरपां साध्यगणस्य चैव

धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन्सगणस्य चैव

Mahabharata

Vana Parva, Adhyaya 118, Verse 13

सरस्वत्याः सिद्धगणस्य चैव; पूष्णश्च ये चाप्यमरास्तथान्ये

पुण्यानि चाप्यायतनानि तेषां; ददर्श राजा सुमनोहराणि

Mahabharata

Vana Parva, Adhyaya 118, Verse 14

तेषूपवासान्विविधानुपोष्य; दत्त्वा च रत्नानि महाधनानि

तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकमाजगाम

Mahabharata

Vana Parva, Adhyaya 118, Verse 15

स तेन तीर्थेन तु सागरस्य; पुनः प्रयातः सह सोदरीयैः

द्विजैः पृथिव्यां प्रथितं महद्भि;स्तीर्थं प्रभासं समुपाजगाम

Mahabharata

Vana Parva, Adhyaya 118, Verse 16

तत्राभिषिक्तः पृथुलोहिताक्षः; सहानुजैर्देवगणान्पितॄंश्च

संतर्पयामास तथैव कृष्णा; ते चापि विप्राः सह लोमशेन

Mahabharata

Vana Parva, Adhyaya 118, Verse 17

स द्वादशाहं जलवायुभक्षः; कुर्वन्क्षपाहःसु तदाभिषेकम्

समन्ततोऽग्नीनुपदीपयित्वा; तेपे तपो धर्मभृतां वरिष्ठः

Mahabharata

Vana Parva, Adhyaya 118, Verse 18

तमुग्रमास्थाय तपश्चरन्तं; शुश्राव रामश्च जनार्दनश्च

तौ सर्ववृष्णिप्रवरौ ससैन्यौ; युधिष्ठिरं जग्मतुराजमीढम्

Mahabharata

Vana Parva, Adhyaya 118, Verse 19

ते वृष्णयः पाण्डुसुतान्समीक्ष्य; भूमौ शयानान्मलदिग्धगात्रान्

अनर्हतीं द्रौपदीं चापि दृष्ट्वा; सुदुःखिताश्चुक्रुशुरार्तनादम्

Mahabharata

Vana Parva, Adhyaya 118, Verse 20

ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश्च पौत्रम्

अन्यांश्च वृष्णीनुपगम्य पूजां; चक्रे यथाधर्ममदीनसत्त्वः

Mahabharata

Vana Parva, Adhyaya 118, Verse 21

ते चापि सर्वान्प्रतिपूज्य पार्थां;स्तैः सत्कृताः पाण्डुसुतैस्तथैव

युधिष्ठिरं संपरिवार्य राज;न्नुपाविशन्देवगणा यथेन्द्रम्

Mahabharata

Vana Parva, Adhyaya 118, Verse 22

तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः

अस्त्रार्थमिन्द्रस्य गतं च पार्थं; कृष्णे शशंसामरराजपुत्रम्

Mahabharata

Vana Parva, Adhyaya 118, Verse 23

श्रुत्वा तु ते तस्य वचः प्रतीता;स्तांश्चापि दृष्ट्वा सुकृशानतीव

नेत्रोद्भवं संमुमुचुर्दशार्हा; दुःखार्तिजं वारि महानुभावाः